6/30/16

॥ वेदस्तुती श्रीमद् भागवत पुराणान्तर्गतम् ॥

श्रीपरीक्षिदुवाच
ब्रह्मन्ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ १०.८७.१॥

श्रीशुक उवाच
बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः ।
मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ १०.८७.२॥

सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता ।
श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ १०.८७.३॥

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ १०.८७.४॥

एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ १०.८७.५॥

यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् ।
धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥ १०.८७.६॥

तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः ।
परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ १०.८७.७॥

तस्मै ह्यवोचद्भगवानृषीणां शृण्वतामिदम् ।
यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ १०.८७.८॥

श्रीभगवानुवाच
स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा ।
तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ १०.८७.९॥

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १०.८७.१०॥

तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ।
अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १०.८७.११॥

श्रीसनन्दन उवाच
स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।
तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १०.८७.१२॥

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।
प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १०.८७.१३॥

श्रुतय ऊचुः
जय जय जह्यजामजित दोषगृभीतगुणां
त्वमसि यदात्मना समवरुद्धसमस्तभगः ।
अगजगदोकसामखिलशक्त्यवबोधक ते
क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ १०.८७.१४॥

बृहदुपलब्धमेतदवयन्त्यवशेषतया
यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।
अत ऋषयो दधुस्त्वयि मनोवचनाचरितं
कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १०.८७.१५॥

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल-
क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।
किमुत पुनः स्वधामविधुताशयकालगुणाः
परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १०.८७.१६॥

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा
महदहमादयोऽण्डमसृजन्यदनुग्रहतः ।
पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः
सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १०.८७.१७॥

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः
परिसरपद्धतिं हृदयमारुणयो दहरम् ।
तत उदगादनन्त तव धाम शिरः परमं
पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १०.८७.१८॥

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया
तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः ।
अथ वितथास्वमूष्ववितथं तव धाम समं
विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ १०.८७.१९॥

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं
तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् ।
इति नृगतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः ॥ १०.८७.२०॥

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्-
चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ १०.८७.२१॥

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच्
चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।
न बत रमन्त्यहो असदुपासनयात्महनो
यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ १०.८७.२२॥

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्
मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो
वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ १०.८७.२३॥

क इह नु वेद बतावरजन्मलयोऽग्रसरं
यत उदगादृषिर्यमनु देवगणा उभये ।
तर्हि न सन्न चासदुभयं न च कालजवः
किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ १०.८७.२४॥

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां
विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।
त्रिगुणमयः पुमानिति भिदा यदबोधकृता
त्वयि न ततः परत्र स भवेदवबोधरसे ॥ १०.८७.२५॥

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्
सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः ।
न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया
स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ १०.८७.२६॥

तव परि ये चरन्त्यखिलसत्त्वनिकेततया
त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः ।
परिवयसे पशूनिव गिरा विबुधानपि तांस्-
त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ १०.८७.२७॥

त्वमकरणः स्वराडखिलकारकशक्तिधरस्-
तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो
विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ १०.८७.२८॥

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो
विहर उदीक्षया यदि परस्य विमुक्त ततः ।
न हि परमस्य कश्चिदपरो न परश्च भवेद्
वियत इवापदस्य तव शून्यतुलां दधतः ॥ १०.८७.२९॥

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्-
तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्
सममनुजानतां यदमतं मतदुष्टतया ॥ १०.८७.३०॥

न घटत उद्भवः प्रकृतिपूरुषयोरजयोर्
उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।
त्वयि त इमे ततो विविधनामगुणैः परमे
सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ १०.८७.३१॥

नृषु तव मायया भ्रमममीष्ववगत्य भृशं
त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः
सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ॥ १०.८७.३२॥

विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ १०.८७.३३॥

स्वजनसुतात्मदारधनधामधरासुरथैस्-
त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।
इति सदजानतां मिथुनतो रतये चरतां
सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ १०.८७.३४॥

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास्-
त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।
दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
न पुनरुपासते पुरुषसारहरावसथान् ॥ १०.८७.३५॥

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं
व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।
व्यवहृतये विकल्प इषितोऽन्धपरम्परया
भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ १०.८७.३६॥

न यदिदमग्र आस न भविष्यदतो निधनाद्-
अनु मितमन्तरा त्वयि विभाति मृषैकरसे ।
अत उपमीयते द्रविणजातिविकल्पपथैर्
वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ १०.८७.३७॥

स यदजया त्वजामनुशयीत गुणांश्च जुषन्
भजति सरूपतां तदनु मृत्युमपेतभगः ।
त्वमुत जहासि तामहिरिव त्वचमात्तभगो
महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ १०.८७.३८॥

यदि न समुद्धरन्ति यतयो हृदि कामजटा
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।
असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्
अनपगतान्तकादनधिरूढपदाद्भवतः ॥ १०.८७.३९॥

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोर्
गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।
अनुयुगमन्वहं सगुण गीतपरम्परया
श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ १०.८७.४०॥

द्युपतय एव ते न ययुरन्तमनन्ततया
त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।
ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस्-
त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ १०.८७.४१॥

श्रीभगवानुवाच
इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ १०.८७.४२॥

इत्यशेषसमाम्नाय पुराणोपनिषद्रसः ।
समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥ १०.८७.४३॥

त्वं चैतद्ब्रह्मदायाद श्रद्धयात्मानुशासनम् ।
धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ १०.८७.४४॥

श्रीशुक उवाच
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् ।
पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥ १०.८७.४५॥

श्रीनारद उवाच
नमस्तस्मै भगवते कृष्णायामलकीर्तये ।
यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ १०.८७.४६॥

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।
ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ १०.८७.४७॥

सभाजितो भगवता कृतासनपरिग्रहः ।
तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥ १०.८७.४८॥

इत्येतद्वर्णितं राजन्यन्नः प्रश्नः कृतस्त्वया ।
यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ १०.८७.४९॥

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो
यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा
तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ १०.८७.५०॥

 ॥ इति ॥

          ॥ ॐ तत्सत् ॥

॥ शुक्लयजुर्वेदीयसन्ध्या प्रातः-मध्याह्न-सायं ॥

॥ अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ॥ 
     ॥ भस्मधारणम् ॥ 
ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वꣳ हवाऽ इदम भस्म मनऽ एतानि
चक्षूꣳषि भस्मानि ॥

     ॥ गायत्रिमन्त्रः ॥ 
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥

धियोयोनः प्प्रचोदयत् ॥

ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता
अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ॥

ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ॥

उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ॥

ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः
भस्मधारणे विनियोगः ॥

ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् ॥

यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ॥

     ॥ आचमनम् ॥ 
ॐ केशवाय नमः स्वाहा । ॐ नारायणाय नमः स्वाहा । ॐ
माधवाय नमः स्वाहा । ॐ गोविन्दाय नमः । हस्तं प्रक्षाल्य

     ॥ अथ देवतानमस्कारः ॥ 
ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः ।
ॐ श्रीधराय नमः। ॐ ऋषिकेशाय नमः ।
ॐ पद्मनाभाय नमः । ॐ दमोदकराय नमः ।
ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः।
ॐ प्रद्युम्नाय नमः। ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः।
ॐ नृसिंहाय नमः । ॐ अच्युताय नमः।
ॐ जनार्दनाय नमः। ॐ उपेन्द्राय नमः ।
ॐ श्रीहरये नमः। ॐ श्रीकृष्णाय नमः ।

     ॥ विनियोगः ॥ 
ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री
छन्दः प्राणायामे विनियोगः ॥

     ॥प्राणायामः॥ 
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयत् ॥

ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥

एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत्

     ॥ शिखाबन्धनम् ॥ 
ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो
देवता शिखाबन्धने विनियोगः ॥

ॐ मनस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽ अश्श्वेषुरीरिषः॥

मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ॥

     ॥अङ्गन्यासः ॥ 
ॐ विष्णुर्विष्णुः । वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं
श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां
यशोबलम् ॥

     ॥ मार्जनम् ॥ 
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ
उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः
तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ॥

     ॥ सङ्कल्पः ॥ 
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं  करिष्ये ॥

     ॥ भूमिप्रार्थना ॥ ॥ विनियोगः ॥

ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो
देवता आसने विनियोगः ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥

त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥

ॐ कूर्माय नमः । ॐ शेषाय नमः । ॐ अनन्ताय नमः ।

     ॥ भूतशुद्धिः ॥ 
ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥

अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन सन्ध्याकर्म समारम्भे ॥

     ॥ मार्जनम् ॥ 
ॐ भुः पुनातु (शिरसि)
ॐ भुवः पुनातु (नेत्रयोः)
ॐ स्वः पुनातु (कण्ठे)
ॐ महः पुनातु (हृदये)
ॐ जनः पुनातु (नाभ्याम्)
ॐ तपः पुनातु (पादयोः)
ॐ सत्यं पुनातु (पुनः शिरसि)
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयत् ॥ (सर्वाङ्गं पुनातु)

     ॥ करन्यासः ॥ 
ॐ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ।
मध्यमायां ऋषिकेशमनामिक्यां त्रिविक्रमम् ॥

कनिष्ठिक्यान्न्यसेद्विष्णुं करमध्ये त् माधवम् ।
करपृष्ठे हरिं विद्यन्मणिबन्धे जनार्दनम् ॥

     ॥ गायत्रीषडङ्गन्यासाः ॥ 
ॐ भुः हृदयाय नमः ।
ॐ भुवः शिरसे स्वाहा ।
ॐ स्वः शिखायै वषट् ।
ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् ।
ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्।
ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् ।

     ॥ प्रणवन्यासाः ॥ 
ॐ अकारम् नभौ ।
ॐ उकारम् हृदये ।
ॐ मकारम् मूर्ध्नि ।
ॐ भुः पादयोः ।
ॐ भुवः जान्वोः ।
ॐ स्वः ऊर्वोः ।
ॐ महः जठरे ।
ॐ जनः कण्ठे ।
ॐ तपः मुखे ।
सत्यम् शिरसि ॥

ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयत् ॥ (सर्वाङ्गे)

     ॥ गायत्र्यावाहानम् ॥ 
ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् ।
रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् ॥

ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् ।
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥

आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ॥

     ॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥

ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ॥

ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ॥

     ॥ मार्जनम् ॥ ॥ विनियोगः ॥

ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः
आपोदेवता मार्जने विनियोगः ॥

     ॥ मार्जनम् ॥ 
ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन । महेरणाय
चक्षसे ॥

योवः शिवतमोरसस्तस्य भाजयतेहनः । उशतीरिवमातरः ॥

तस्म्माऽ अरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः

     ॥ अघमर्षणम् ॥ 
     ॥विनियोगः॥ 
ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो
देवता अघमर्षणे विनियोगः॥

     ॥ अघमर्षणम् ॥ 
ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव ॥

पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ॥

(अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)

     ॥ अर्घ्यम् ॥ 
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥

धियोयोनः प्प्रचोदयत् ॥

ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥

(एवम त्रिवारं अर्घ्यं दद्यात्)

ॐ असावादित्यो ब्रह्म

     ॥ सूर्योपस्थानम् ॥ 
ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् ॥ देवन्देवत्र
सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ॥

उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ॥ दृशेव्विश्श्वायसूर्य्यम् ॥

ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः ॥

आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षꣳ सूर्य्यऽआत्क्मा
जगतस्तस्थुषश्च ॥

ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ॥

पश्श्येमशरदः शतञ्जीवेमशरदः
शतꣳशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः
स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ॥

     ॥विनियोगः॥ 
ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः आज्यं देवता जगती
छन्दः यजुर्गायत्र्यावाहने विनियोगः

     ॥ गायत्र्यावाहनम् ॥ 
ॐ
तेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि
     ॥

     ॥ अथ मुद्रप्रदर्शनम् ॥ 
ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैवचतुष्पञ्चमुखं तथा ॥

षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ॥

प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्।
सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा॥

     ॥ शापविमोचनम् ॥ 
ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ॥

ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ॥

(महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्)
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥

धियोयोनः प्प्रचोदयत् ॥

ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥

ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ॥

     ॥ अथ गायत्रीध्यानम् ॥ 
मुक्ताविद्रुमहेमनीलधवलाच्छायैर्मुखैस्त्रीक्षणै
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

     ॥ पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ॥ 
ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् ।
लिङ्गं निर्वाणेति जपेत् ॥

     ॥ जपार्णम् ॥ 
ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥

     ॥ प्रार्थना ॥ 
ॐ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥

उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्रह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥

     ॥ गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ॥ 
अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि
माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ॥

भो आचार्य ! त्वामभिवादयामि ।
भो वैश्वानर ! त्वामभिवादयामि ।
भो सूर्यचन्द्रमसौ ! युवामभिवादयामि ।
भो मातापितरौ ! युवामभिवादयामि ।
भो याज्ञवल्क्य ! त्वामभिवादयामि ।
भो ईश्वर ! त्वामभिवादयामि ।

     ॥ सन्ध्यार्पणम् ॥ 
ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी
परमेश्वरः प्रीयतां न मम ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

(त्रिराचमेत्)

     ॥ हस्तौ बद्धवा ॥ 
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः ।

ॐ तत्सद् ब्रह्मार्पणमस्तु

     ॥ इति प्रातः सन्ध्याप्रयोगः ॥ 



     ॥ अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ॥ 
     ॥ सङ्कल्पः ॥ 
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं  करिष्ये ॥

     ॥सावित्र्यावाहनम् ॥ 
ॐ सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् ।
त्रिशूलिनीं वृषारूढां रुद्ररूपिणीसंस्थिताम् ॥

रुद्राणीं रुद्रदैवत्यां रुद्रलोकानिवासिनीम् ।
आवहयाम्यहं देवीमायान्तीं रुद्रमण्डलात् ॥

आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि ।
सावित्रि छन्दसां मातर्रुद्रयोनि नमोऽस्तुते ॥

     ॥ अम्बुप्राशनम् ॥

     ॥ विनियोगः ॥

ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री
छन्दः अम्बुप्राशने विनियोगः ॥

     ॥ अम्बुप्राशनम् ॥ 
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् । पुनन्तु
ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ॥

यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु
मामापो सताञ्च प्रतिग्रहꣳस्वाहा ॥

     ॥ अर्घ्यम् ॥ (एकवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च ॥

हिरण्ण्ययेनसवितारथेनादेवोयाति भुवनानिपश्श्यन् ॥

ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥ ॐ असावादित्यो ब्रह्म ॥

     ॥ जपार्णम् ॥ 
ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥

     ॥ सन्ध्यार्पणम् ॥ 
ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी
परमेश्वरः प्रीयतां न मम ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

त्रिराचमेत् ।

     ॥ इति मध्याह्नसन्ध्याप्रयोगः ॥ 



     ॥ अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ॥ 

     ॥ सङ्कल्पः ॥ 
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ॥

     ॥ सरस्वत्यावाहनम् ॥ 
ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् ।
शङ्खचक्रगदापद्महस्तां गरुडवाहिनीम् ॥

वैष्ण्वीं विष्णुदैवत्यां  विष्णुलोकनिवासिनीम् ।
आवाहयाम्यहं देवीमायान्तीं विष्णुमण्डलात् ॥

आग्च्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि ।
सरस्वति छन्दसा मातार्विष्णुयोनि नमोऽस्तुते ॥

     ॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥

ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ॥

ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥

     ॥ अर्घ्यम् ॥ (त्रिवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥

     ॥ जपार्णम् ॥ 
ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥

     ॥ सन्ध्यार्पणम् ॥ 
ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी
परमेश्वरः प्रीयतां न मम ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

त्रिराचमेत् ।

     ॥ इति सायंसन्ध्याप्रयोगः ॥

॥ गर्भोपनिषत् ॥


यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥

ॐ सहनाववत्विति शान्तिः ॥

ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं
षड्गुणयोगयुक्तम् ।
तत्सप्तधातु त्रिमलं द्वियोनि
चतुर्विधाहारमयं शरीरं भवति ॥

पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजोवायुराकाशमिति ।
अस्मिन्पञ्चात्मके
शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् ।
तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं
तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥

तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने
वायुर्गमने आकाशमवकाशप्रदाने । पृथक् श्रोत्रे
शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने
नासिकाऽऽघ्राणे उपस्थश्चानन्दनेऽपानमुत्सर्गे बुद्ध्या
बुद्ध्यति मनसा सङ्कल्पयति वाचा वदति । षडाश्रयमिति
कस्मात् मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते ।
षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति ।
इष्टानिष्टशब्दसञ्ज्ञाः प्रतिविधाः सप्तविधा भवन्ति ॥ १॥

शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति ।
सप्तधातुमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया
जायन्ते ॥ परस्परं सौम्यगुणत्वात् षड्विधो रसो
रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः
स्नावा स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं
शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां
नयति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने
वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ २॥

ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति
सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो
भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः
सम्पद्यते मासत्रयेण पादप्रवेशो भवति । अथ चतुर्थे मासे
जठरकटिप्रदेशो भवति । पञ्चमे मासे पृष्ठवंशो भवति ।
षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । सप्तमे
मासे जीवेन संयुक्तो भवति । अष्टमे मासे सर्वसम्पूर्णो
भवति । पितू रेतोऽतिरिक्तात् पुरुषो भवति । मातुः
रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको
भवति । व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना
भवन्ति । अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा
तनुः स्यात्ततो युग्माः प्रजायन्ते ॥ पञ्चात्मकः समर्थः
पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात्
अक्षरमोङ्कारं चिन्तयति । तदेतदेकाक्षरं ज्ञात्वाऽष्टौ
प्रकृतयः षोडश विकाराः शरीरे तस्यैवे देहिनाम् । अथ
मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । अथ
नवमे मासि सर्वलक्षणसम्पूर्णो भवति पूर्वजातीः स्मरति
कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति ॥ ३॥

नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया ।
आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥

जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः ।
अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ॥

यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥

यदि योन्यां प्रमुञ्चामि साङ्ख्यं योगं समाश्रये ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥

यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥

यदि योन्यां प्रमुञ्चामि तं प्रपद्ये
भगवन्तं नारायणं देवम् ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ।
यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् ॥

अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि
सम्प्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु
वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं
न च कर्म शुभाशुभम् ॥ ४॥

शरीरमिति कस्मात्
साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः
कोष्ठाग्निरिति । तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं
पचतीति । दर्शनाग्नी रूपादीनां दर्शनं करोति ।
ज्ञानाग्निः शुभाशुभं च कर्म विन्दति । तत्र त्रीणि
स्थानानि भवन्ति हृदये दक्षिणाग्निरुदरे गार्हपत्यं
मुखमाहवनीयमात्मा यजमानो बुद्धिं पत्नीं निधाय
मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च
बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः
कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं
शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं
मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं
सप्त शिरासतानि पञ्च मज्जाशतानि अस्थीनि च ह
वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो
हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं
कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं
मूत्रपुरीषमाहारपरिमाणात् । पैप्पलादं मोक्षशास्त्रं
परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥


सह नाववत्विति शान्तिः ॥

इति गर्भोपनिषत्समाप्ता ॥

6/26/16

श्रीमद्भागवतपुराणम् स्कन्धः ३अध्यायः ३३

मैत्रेय उवाच -
एवं निशम्य कपिलस्य वचो जनित्री
     सा कर्दमस्य दयिता किल देवहूतिः ।
विस्रस्तमोहपटला तमभिप्रणम्य
     तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥
देवहूतिरुवाच -
अथाप्यजोऽन्तःसलिले शयानं
     भूतेन्द्रियार्थात्ममयं वपुस्ते ।
गुणप्रवाहं सदशेषबीजं
     दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥
स एव विश्वस्य भवान् विधत्ते
     गुणप्रवाहेण विभक्तवीर्यः ।
सर्गाद्यनीहोऽवितथाभिसन्धिः
     आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥
स त्वं भृतो मे जठरेण नाथ
     कथं नु यस्योदर एतदासीत् ।
विश्वं युगान्ते वटपत्र एकः
     शेते स्म मायाशिशुरङ्‌घ्रिपानः ॥ ४ ॥
त्वं देहतन्त्रः प्रशमाय पाप्मनां
     निदेशभाजां च विभो विभूतये ।
यथावतारास्तव सूकरादयः
     तथायमप्यात्म पथोपलब्धये ॥ ५ ॥
यन्नामधेयश्रवणानुकीर्तनाद्
     यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
     कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
अहो बत श्वपचोऽतो गरीयान्
     यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या
     ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
तं त्वामहं ब्रह्म परं पुमांसं
     प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।
स्वतेजसा ध्वस्तगुणप्रवाहं
     वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
मैत्रेय उवाच -
ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।
वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
कपिल उवाच -
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।
आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्‍ब्रह्मवादिभिः ।
येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
मैत्रेय उवाच -
इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् ।
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
सा चापि तनयोक्तेन योगादेशेन योगयुक् ।
तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् ।
आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
स्वच्छस्फटिककुड्येषु महामारकतेषु च ।
रत्‍नप्रदीपा आभान्ति ललना रत्‍नसंयुताः ॥ १७ ॥
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।
कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।
वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥
हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् ।
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा ।
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
तमेव ध्यायती देवं अपत्यं कपिलं हरिम् ।
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
ध्यायती भगवद्‌रूपं यदाह ध्यानगोचरम् ।
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् ।
स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥
ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये ।
निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥
नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा ।
न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥
तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् ।
बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।
आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥
तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
तस्यास्तद्योगविधुतं आर्त्यं मर्त्यमभूत्सरित् ।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।
मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥
सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः ।
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।
त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।
कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
य इदमनुशृणोति योऽभिधत्ते
     कपिलमुनेर्मतं आत्मयोगगुह्यम् ।
भगवति कृतधीः सुपर्णकेतौ
     उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

श्रीमद्भागवतपुराणम् स्कन्धः ३अध्यायः ३२

मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता
भगवत्स्तुतिः,जीवस्य बाल्यादि अवस्था क्लेशवर्णनं च -

कपिल उवाच -
अथ यो गृहमेधीयान् धर्मानेवावसन्गृहे ।
काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १ ॥
स चापि भगवद्धर्मात् काममूढः पराङ्‌मुखः ।
यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २ ॥
तत् श्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।
तदा लोका लयं यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥
ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे ।
निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।
स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।
परावरेशं प्रकृतिं अस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।
तावद् अध्यासते लोकं परस्य परचिन्तकाः ॥ ८ ॥
क्ष्माम्भोऽनलानिलवियन् मनैन्द्रियार्थ
     भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
     कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९ ॥
एवं परेत्य भगवन् तमनुप्रविष्टा
     ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं
     ब्रह्म प्रधानमुपयान्ति अगताभिमानाः ॥ १० ॥
(अनुष्टुप्)
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२ ॥
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।
कुर्वन्ति अप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।
पितॄन् यजन्ति अनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।
कथायां कथनीयोरु विक्रमस्य मधुद्विषः ॥ १८ ॥
नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।
हित्वा शृण्वन्ति असद्‍गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ।
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।
तद्‍गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं यद्‍ब्रह्मदर्शनम् ॥ २३ ॥
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।
न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत ॥ २४ ॥
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् ।
हेयोपादेय रहितं आरूढं पदमीक्षते ॥ २५ ॥
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते ॥ २६ ॥
एतावानेव योगेन समग्रेणेह योगिनः ।
युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः ॥ २७ ॥
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९ ॥
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।
समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३० ॥
इत्येतत्कथितं गुर्वि ज्ञानं तद्‍ब्रह्मदर्शनम् ।
येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो भगवत् शब्दलक्षणः ॥ ३२ ॥
यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ ३३ ॥
क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः ।
आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥
योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।
धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।
कालस्य च अक्तगतेः योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः ।
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥
नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् ।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
न लोलुपायोपदिशेत् न गृहारूढचेतसे ।
नाभक्ताय च मे जातु न मद्‍भक्तद्विषामपि ॥ ४० ॥
श्रद्दधानाय भक्ताय विनीताय अनसूयवे ।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥
य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् ।
यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कपिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥

श्रीमद्भागवतपुराणम् स्कन्धः ३अध्यायः ३१

श्रीभगवानुवाच -
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।
स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ॥ १ ॥
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्‍बुदम् ।
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २ ॥
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद् भवस्त्रिभिः ॥ ३ ॥
चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्‍भवः ।
षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
मातुर्जग्धान्नपानाद्यैः एधद् धातुरसम्मते ।
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥
कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।
मूर्च्छां आप्नोति उरुक्लेशः तत्रत्यैः क्षुधितैर्मुहुः ॥ ६ ॥
कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः ।
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७ ॥
उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः ।
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८ ॥
अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्‍भवम् ।
स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥
आरभ्य सप्तमान् मासात् लब्धबोधोऽपि वेपितः ।
नैकत्रास्ते सूतिवातैः विष्ठाभूरिव सोदरः ॥ १० ॥
नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११ ॥
जन्तुरुवाच -
तस्योपसन्नमवितुं जगदिच्छयात्त
     नानातनोर्भुवि चलत् चरणारविन्दम् ।
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
     येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
     भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।
आस्ते विशुद्धमविकारमखण्डबोधम्
     आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥
यः पञ्चभूतरचिते रहितः शरीरे
     च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
तेनाविकुण्ठमहिमानमृषिं तमेनं
     वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४ ॥
यन्माययोरुगुणकर्म निबन्धनेऽस्मिन्
     सांसारिके पथि चरन् तदभिश्रमेण ।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
     युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥
ज्ञानं यदेतद् अदधात्कतमः स देवः
     त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।
तं जीवकर्मपदवीं अनुवर्तमानाः
     तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥
देह्यन्यदेहविवरे जठराग्निनासृग्
     विण्मूत्रकूपपतितो भृशतप्तदेहः ।
इच्छन्नितो विवसितुं गणयन् स्चमासान्
     निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७ ॥
येनेदृशीं गतिमसौ दशमास्य ईश
     सङ्ग्राहितः पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथः
     को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥
पश्यत्ययं धिषणया ननु सप्तवध्रिः
     शारीरके दमशरीर्यपरः स्वदेहे ।
यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं
     पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥
सोऽहं वसन्नपि विभो बहुदुःखवासं
     गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।
यत्रोपयातमुपसर्पति देवमाया
     मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥
तस्मादहं विगतविक्लव उद्धरिष्य
     आत्मानमाशु तमसः सुहृदाऽऽत्मनैव ।
भूयो यथा व्यसनमेतदनेकरन्ध्रं
     मा मे भविष्यदुपसादितविष्णुपादः ॥ २१ ॥
कपिल उवाच -
(अनुष्टुप्)
एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।
सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२ ॥
तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः ।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३ ॥
पतितो भुव्यसृङ्‌मूत्रे विष्ठाभूरिव चेष्टते ।
रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४ ॥
परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।
अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५ ॥
शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।
नेशः कण्डूयनेऽङ्गानां आसनोत्थानचेष्टने ॥ २६ ॥
तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।
रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७ ॥
इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।
अलब्धाभीप्सितोऽज्ञानाद् इद्धमन्युः शुचार्पितः ॥ २८ ॥
सह देहेन मानेन वर्धमानेन मन्युना ।
करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९ ॥
भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।
अहं ममेत्यसद्‍ग्राहः करोति कुमतिर्मतिम् ॥ ३० ॥
तदर्थं कुरुते कर्म यद्‍बद्धो याति संसृतिम् ।
योऽनुयाति ददत्क्लेशं अविद्याकर्मबन्धनः ॥ ३१ ॥
यद्यसद्‌भि पथि पुनः शिश्नोदरकृतोद्यमैः ।
आस्थितो रमते जन्तुः तमो विशति पूर्ववत् ॥ ३२ ॥
सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।
सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च ॥ ३४ ॥
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।
योषित्सङ्गात् यथा पुंसो यथा तत्सङ्‌गिसङ्गतः ॥ ३५ ॥
प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः ।
रोहिद्‍भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः ॥ ३६ ॥
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।
ऋषिं नारायणमृते योषिन् मय्येह मायया ॥ ३७ ॥
बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।
या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८ ॥
सङ्गं न कुर्यात्प्रमदासु जातु
     योगस्य पारं परमारुरुक्षुः ।
मत्सेवया प्रतिलब्धात्मलाभो
     वदन्ति या निरयद्वारमस्य ॥ ३९ ॥
योपयाति शनैर्माया योषिद् देवविनिर्मिता ।
तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४० ॥
यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् ।
स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥
तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् ।
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥
देहेन जीवभूतेन लोकात् लोकमनुव्रजन् ।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।
तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः ॥ ४४ ॥
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।
तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥
यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा ।
तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः ॥ ४६ ॥
तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।
बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कपिलेयोपाख्याने जीवगतिर्नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥