6/12/16

श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः १९

सूत उवाच ।
महीपतिस्त्वथ तत्कर्म गर्ह्यं
    विचिन्तयन् नात्मकृतं सुदुर्मनाः ।
अहो मया नीचमनार्यवत्कृतं
    निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
ध्रुवं ततो मे कृतदेवहेलनाद्
    दुरत्ययं व्यसनं नातिदीर्घात् ।
तदस्तु कामं ह्यघनिष्कृताय मे
    यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
अद्यैव राज्यं बलमृद्धकोशं
    प्रकोपितब्रह्मकुलानलो मे ।
दहत्वभद्रस्य पुनर्न मेऽभूत्
    पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३ ॥
स चिन्तयन्नित्थमथाशृणोद् यथा
    मुनेः सुतोक्तो निर्‌ऋतिस्तक्षकाख्यः ।
स साधु मेने न चिरेण तक्षका
    नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
अथो विहायेमममुं च लोकं
    विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्‌घ्रिसेवामधिमन्यमान
    उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥
या वै लसच्छ्रीतुलसीविमिश्र
    कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
पुनाति लोकानुभयत्र सेशान्
    कस्तां न सेवेत मरिष्यमाणः ॥ ६ ॥
इति व्यवच्छिद्य स पाण्डवेयः
    प्रायोपवेशं प्रति विष्णुपद्याम् ।
दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो
    मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७ ॥
तत्रोपजग्मुर्भुवनं पुनाना
    महानुभावा मुनयः सशिष्याः ।
प्रायेण तीर्थाभिगमापदेशैः
    स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८ ॥
अत्रिर्वसिष्ठश्च्यवनः शरद्वान्
    अरिष्टनेमिर्भृगुरङ्‌गिराश्च ।
पराशरो गाधिसुतोऽथ राम
    उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
मेधातिथिर्देवल आर्ष्टिषेणो
    भारद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवषः कुम्भयोनिः
    द्वैपायनो भगवान् नारदश्च ॥ १० ॥
अन्ये च देवर्षिब्रह्मर्षिवर्या
    राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान् समेतान्
    अभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
सुखोपविष्टेष्वथ तेषु भूयः
    कृतप्रणामः स्वचिकीर्षितं यत् ।
विज्ञापयामास विविक्तचेता
    उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२ ॥
राजोवाच
अहो वयं धन्यतमा नृपाणां
    महत्तमानुग्रहणीयशीलाः ।
राज्ञां कुलं ब्राह्मणपादशौचाद्
    दूराद् विसृष्टं बत गर्ह्यकर्म ॥ १३ ॥
तस्यैव मेऽघस्य परावरेशो
    व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो
    यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥
तं मोपयातं प्रतियन्तु विप्रा
    गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा
    दशत्वलं गायत विष्णुगाथाः ॥ १५ ॥
पुनश्च भूयाद्‍भगवत्यनन्ते
    रतिः प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां यामुपयामि सृष्टिं
    मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६ ॥
इति स्म राजाध्यवसाययुक्तः
    प्राचीनमूलेषु कुशेषु धीरः ।
उदङ्‌मुखो दक्षिणकूल आस्ते
    समुद्रपत्‍न्याः स्वसुतन्यस्तभारः ॥ १७ ॥
एवं च तस्मिन् नरदेवदेवे
    प्रायोपविष्टे दिवि देवसङ्घाः ।
प्रशस्य भूमौ व्यकिरन् प्रसूनैः
    मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८ ॥
महर्षयो वै समुपागता ये
    प्रशस्य साध्वित्यनुमोदमानाः ।
ऊचुः प्रजानुग्रहशीलसारा
    यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥
न वा इदं राजर्षिवर्य चित्रं
    भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्टं
    सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २० ॥
सर्वे वयं तावदिहास्महेऽद्य
    कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं
    यास्यत्ययं भागवतप्रधानः ॥ २१ ॥
आश्रुत्य तद् ऋषिगणवचः परीक्षित्
    समं मधुच्युद् गुरु चाव्यलीकम् ।
आभाषतैनानभिनन्द्य युक्तान्
    शुश्रूषमाणश्चरितानि विष्णोः ॥ २२ ॥
समागताः सर्वत एव सर्वे
    वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथवामुत्र च कश्चनार्थ
    ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥
ततश्च वः पृच्छ्यमिमं विपृच्छे
    विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश्च कृत्यं
    शुद्धं च तत्रामृशताभियुक्ताः ॥ २४ ॥
तत्राभवद् भगवान् व्यासपुत्रो
    यदृच्छया गामटमानोऽनपेक्षः ।
अलक्ष्यलिङ्गो निजलाभतुष्टो
    वृतश्च बालैरवधूतवेषः ॥ २५ ॥
तं द्व्यष्टवर्षं सुकुमारपाद
    करोरुबाह्वंसकपोलगात्रम् ।
चार्वायताक्षोन्नसतुल्यकर्ण
    सुभ्र्‌वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥
निगूढजत्रुं पृथुतुङ्गवक्षसं
    आवर्तनाभिं वलिवल्गूदरं च ।
दिगम्बरं वक्त्रविकीर्णकेशं
    प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥
श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या
    स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः
    तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥
स विष्णुरातोऽतिथय आगताय
    तस्मै सपर्यां शिरसाऽऽजहार ।
ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका
    महासने सोपविवेश पूजितः ॥ २९ ॥
स संवृतस्तत्र महान् महीयसां
    ब्रह्मर्षिराजर्षिदेवर्षि सङ्घैः ।
व्यरोचतालं भगवान् यथेन्दुः
    ग्रहर्क्षतारानिकरैः परीतः ॥ ३० ॥
प्रशान्तमासीनमकुण्ठमेधसं
    मुनिं नृपो भागवतोऽभ्युपेत्य ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलिः
    नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥
परीक्षिदुवाच ।
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।
कृपयातिथिरूपेण भवद्‌भिस्तीर्थकाः कृताः ॥ ३२ ॥
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ ३३ ॥
सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि ।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४ ॥
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।
पैतृष्वसेयप्रीत्यर्थं तद्‍गोत्रस्यात्तबान्धवः ॥ ३५ ॥
अन्यथा तेऽव्यक्तगतेः दर्शनं नः कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६ ॥
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।
न लक्ष्यते ह्यवस्थानं अपि गोदोहनं क्वचित् ॥ ३९ ॥
सूत उवाच ।
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४० ॥
इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे शुकागमनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः १८

सूत उवाच ।
यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।
अनुग्रहाद् भगवतः कृष्णस्याद्‍भुतकर्मणः ॥ १ ॥
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् ।
न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।
यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥
यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।
तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।
कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
किं नु बालेषु शूरेण कलिना धीरभीरुणा ।
अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया ।
वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥
या याः कथा भगवतः कथनीयोरुकर्मणः ।
गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥
ऋषय ऊचुः
सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।
यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत् सङ्‌गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
को नाम तृप्येद् रसवित्कथायां
    महत्तमैकान्त परायणस्य ।
नान्तं गुणानां अगुणस्य जग्मुः
    योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
तन्नो भवान् वै भगवत्प्रधानो
    महत्तमैकान्त परायणस्य ।
हरेरुदारं चरितं विशुद्धं
    शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
स वै महाभागवतः परीक्षिद्
    येनापवर्गाख्यमदभ्रबुद्धिः ।
ज्ञानेन वैयासकिशब्दितेन
    भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
तन्नः परं पुण्यमसंवृतार्थं
    आख्यानमत्यद्‍भुत योगनिष्ठम् ।
आख्याह्यनन्ता चरितोपपन्नं
    पारीक्षितं भागवताभिरामम् ॥ १७ ॥
सूत उवाच ।
अहो वयं जन्मभृतोऽद्य हास्म
    वृद्धानुवृत्त्यापि विलोमजाताः ।
दौष्कुल्यमाधिं विधुनोति शीघ्रं
    महत्तमानामभिधानयोगः ॥ १८ ॥
कुतः पुनर्गृणतो नाम तस्य
    महत्तमैकान्त परायणस्य ।
योऽनन्तशक्तिः भगवाननन्तो
    महद्‍गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥
एतावतालं ननु सूचितेन
    गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान् प्रार्थयतो विभूतिः
    यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
अथापि यत्पादनखावसृष्टं
    जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात्
    को नाम लोके भगवत्पदार्थः ॥ २१ ॥
यत्रानुरक्ताः सहसैव धीरा
    व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
    यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥
अहं हि पृष्टोऽर्यमणो भवद्‌भिः
    आचक्ष आत्मावगमोऽत्र यावान् ।
नभः पतन्त्यात्मसमं पतत्त्रिणः
    तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
एकदा धनुरुद्यम्य विचरन्मृगयां वने ।
मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् ।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः ।
अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।
ब्राह्मणं प्रत्यभूद्‍ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।
विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥
एष किं निभृताशेष करणो मीलितेक्षणः ।
मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।
स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।
स कथं तद्‍गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
इति लङ्‌घितमर्यादं तक्षकः सप्तमेऽहनि ।
दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
स वा आङ्‌गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥
निशम्य शप्तमतदर्हं नरेन्द्रं
    स ब्राह्मणो नात्मजमभ्यनन्दत् ।
अहो बतांहो महदद्य ते कृतं
    अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥
न वै नृभिर्नरदेवं पराख्यं
    सम्मातुमर्हस्यविपक्वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता
    विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
अलक्ष्यमाणे नरदेवनाम्नि
    रथाङ्गपाणावयमङ्ग लोकः ।
तदा हि चौरप्रचुरो विनङ्क्ष्यति
    अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥
तदद्य नः पापमुपैत्यनन्वयं
    यन्नष्टनाथस्य वसोर्विलुम्पकात् ।
परस्परं घ्नन्ति शपन्ति वृञ्जते
    पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥
तदाऽऽर्यधर्मः प्रविलीयते नृणां
    वर्णाश्रमाचारयुतस्त्रयीमयः ।
ततोऽर्थकामाभिनिवेशितात्मनां
    शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः ।
साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।
पापं कृतं तद्‍भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।
नास्य तत्प्रतिकुर्वन्ति तद्‍भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।
न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥
इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥

श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः १७

सूत उवाच ।
तत्र गोमिथूनं राजा हन्यमानमनाथवत ।
दण्डहस्तं च वृषलं ददृशे नूपलात्र्छनम ॥१॥

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम ।
वेपमानं पदैकेन सीदन्तं शुद्रताडितम ॥२॥

गां च धर्मदुधां दीनां भृशं शुद्रपदहताम ।
विवत्सां साश्रुवदना क्षामां यवसमिच्चतीम ॥३॥

पप्रच्छ रथामारुढः कार्तस्वरपरिच्छदम ।
मेघगम्भीरया वाचा समारोपितकार्मुकः ॥४॥

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान बली ।
नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥५॥

यस्त्वं कृष्णे गते दुरं सह गाण्डीवधन्वना ।
शोच्योऽस्यशोच्यान रहसि प्रहरन वधमर्हसि ॥६॥

त्वं वा मृणालधवलः पादैर्न्यूनः पद चरन ।
वृषरुपेण किं कश्चिद देवो नः परिखेदयन ॥७॥

न जातू पौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
भुतलेऽनुपतन्त्यस्मिन विना ते प्राणिनां शुचः ॥८॥

मा सौरभेयानुशुचो व्येतू ते वृषलाद भयम ।
मा रोदीरम्ब भद्रं ते खलांना मयि शास्तदि ॥९॥

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥१०॥

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।
अत एनं वधिष्यामि भुतद्रुहृमसत्तमम ॥११॥

कोऽवृश्चत तव पादांस्त्रीन सौरर्भय चतूष्पद ।
मा भूवस्त्वांदृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम ॥१२॥

आख्याहि वृष भद्रं वः साधुनामकॄतागसाम ।
आत्मवैरुप्यकर्तारं पार्थाना कीर्तिदुषणम ॥१३॥

जनेऽनागस्यघं युत्र्जनं सर्वतोऽस्य न मदृभयम ।
साधुनां भद्रमेअ स्यादसाधुदमने कृते ॥१४॥

अनागस्स्विह भुतेषु य आगस्कृन्निरंकुशः ।
आहर्तास्ति भुजं साक्षादमर्त्यस्यापि सांगदम ॥१५॥

राज्ञो हि परमो धर्म स्वधर्मस्थानुपानम ।
शासतोऽन्यान यथाशास्त्रमनापद्यत्पथानिह ॥१६॥

धर्म उवाच ।
एतद वः पाण्डवेयानां युक्तमार्ताभव वचः ।
येषा गुणगणैः कृष्णो दौत्यादौ भगवान कृतः ॥१७॥

न वयं क्लेशाबीजानि यतः स्युः पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्य भेदविमोहिताः ॥१८॥

केचिद विकल्पवसना आहुरात्मानमात्मनः ।
दैवमन्ये परे कर्म स्वभावमपरे प्रभुम ॥१९॥

अप्रतर्क्यादनिर्देश्यदिति केष्वपि निश्चयः ।
अत्रानुरुपं राजर्षे विमृश स्वमनीषया ॥२०॥

सूत उवाच ।
एवं धर्मे प्रवदति स सम्राड द्विजसत्तम ।
समाहितेन मनसा विखेदः पर्यचष्ट तम ॥२१॥

राजोवाच
धर्म ब्रवीषि धर्मोऽसि वृषरूपधृक ।
यदधर्मकृतः स्थान सुचकस्यापि तद्भवेत ॥२२॥

अथवा देवमायाया नुनं गतिरगोचरा ।
चेतसो वचसश्चापि भुतानामिति निश्चयः ॥२३॥

तपः शौचं दया सत्यमिति पादाःकृते कृताः ।
अधर्माशैस्त्रयो भग्नाः स्मयसंगमदैस्तव ॥२४॥

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।
तं जिघृक्षत्यधर्माऽयमनृतेनैधितः कलिः ॥२५॥

इयं च भूर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतूका ॥२६॥

शोचत्यश्रुकला साध्वी दुर्भवोज्झिताधुना ।
अब्रह्याण्या नॄपव्याजाः शुद्रा भोक्ष्यन्ति मामिति ॥२७॥

इति धर्म महीं चैव सान्त्वयित्वा महारथः ।
निशातमाददे खंग कलयेऽधर्महेतवे ॥२८॥

तं जिघासुमभिप्रेत्य विहाय नृपलात्र्छनम ।
तत्पादमुलं शिरसा समगाद भयविह्वलः ॥२९॥

पतितं पादयोर्वीक्ष्य कृपया दीनवत्सलः ।
शरण्यो नावधीच्छलोक्य आह चेद हसन्निव ॥३०॥

राजोवाच
न ते गुडाकेशयशोधराणां बद्धात्र्जलेर्वै भयमस्ति किंचित ।
न वर्तितव्यं भवता कथंचन क्षेत्रे मदीये त्वमधर्मबन्धु ॥३१॥

त्वां वर्तमान नरदेवदेहे ष्वनु प्रवृत्तोऽयमधर्मपुगः ।
लोभो‍ऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥३२॥

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्मावर्ते यत्र यजन्ति यज्ञै र्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥३३॥

यस्मिन हरिर्भगवानिज्यमान इज्यामुर्तिर्यजतां शं तनोति ।
कामानमोघान स्थिरजंगमाना मन्तर्बाहिर्वायुरिवैष आत्मा ॥३४॥

सुत उआच ।
परिक्षितैवमादिष्टः स कलिर्जातवेपथूः ।
तमुद्यातासिमाहेदं दण्डपाणिमिवोद्यतम ॥३५॥

कलिरुवाच ।
यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम ॥३६॥

तन्मे धर्मभुतां श्रेष्ठ स्थान निर्देष्टुमर्हसि ।
यत्रैण नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम ॥३७॥

सुत उवाच ।
अभ्यर्थितस्तदा तस्मै स्थानादि कलये ददौ ।
द्युतं पाणन स्त्रियः सुना यत्राधर्मश्चतूर्विधः ॥३८॥

पुनश्च याचमानाय जातरुपमदात्प्रभुः ।
ततोऽनृतं मदं कामं रजो वैरं च पंचमम ॥३९॥

अमुनि पंच स्थानानि ह्याधर्मप्रभवः कलिः ।
औत्तरेयेण दत्ताणि न्यवसत तन्निदेशकृतः ॥४०॥

अथैतानि न सेवित बुभुषुः पुरुषःक्वचित ।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥४१॥

वृषस्य नष्टस्त्रीन पादान तपः शौचं दयामिति ।
प्रतिसंदध आश्वास्य महीं च समवर्धयत ॥४२॥

स एष एतर्ह्याध्यास्त आसनं पार्थिवोचितम ।
पितामहेनोपन्यस्तं राज्ञारण्य्तं विविक्षता ॥४३॥

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन ।
गजाह्वयो महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥४४॥

इत्थम्भूतनुभावोऽयमभिमन्युसुतो नॄपः ।
यस्य पालयतः क्षोणीं युयं सत्राय दीक्षिताः ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥