6/14/16

॥ एकश्लोकि रामायणम् ॥

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम् ॥


॥ एकश्लोकि रामायणं सम्पूर्णम् ॥

॥ एकश्लोकी भागवतम् ॥


आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
        मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुन्तीसुतां पालनम्
 एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ।

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोः तत्त्वदर्शिभि: ॥