7/2/16

श्री वेङ्कटेश्वर स्तोत्रम्

कमलाकुच चूचुक कुङ्कमतो
नियतारुणि तातुल नीलतनो ।
कमलायत लोचन लोकपते
विजयीभव वेङ्कट शैलपते ॥
सचतुर्मुख षण्मुख पञ्चमुखे
प्रमुखा खिलदैवत मौलिमणे ।
शरणागत वत्सल सारनिधे
परिपालय मां वृष शैलपते ॥
अतिवेलतया तव दुर्विषहै
रनु वेलकृतै रपराधशतैः ।
भरितं त्वरितं वृष शैलपते
परया कृपया परिपाहि हरे ॥
अधि वेङ्कट शैल मुदारमते-
र्जनताभि मताधिक दानरतात् ।
परदेवतया गदितानिगमैः
कमलादयितान्न परङ्कलये ॥
कल वेणुर वावश गोपवधू
शत कोटि वृतात्स्मर कोटि समात् ।
प्रति पल्लविकाभि मतात्-सुखदात्
वसुदेव सुतान्न परङ्कलये ॥
अभिराम गुणाकर दाशरधे
जगदेक धनुर्थर धीरमते ।
रघुनायक राम रमेश विभो
वरदो भव देव दया जलधे ॥
अवनी तनया कमनीय करं
रजनीकर चारु मुखाम्बुरुहम् ।
रजनीचर राजत मोमि हिरं
महनीय महं रघुराममये ॥
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायम मोघशरम् ।
अपहाय रघूद्वय मन्यमहं
न कथञ्चन कञ्चन जातुभजे ॥
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥
अहं दूरदस्ते पदां भोजयुग्म
प्रणामेच्छया गत्य सेवां करोमि ।
सकृत्सेवया नित्य सेवाफलं त्वं
प्रयच्छ पयच्छ प्रभो वेङ्कटेश ॥
अज्ञानिना मया दोषा न शेषान्विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ॥

भज गोविन्दं

रचन: आदि शङ्कराचार्य
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिङ्करणे ॥ 1 ॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥
नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ॥ 3 ॥
नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥
यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां को‌உपि न पृच्छति गेहे ॥ 5 ॥
यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥ 6 ॥
बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि को‌உपि न लग्नः ॥ 7 ॥
का ते कान्ता कस्ते पुत्रः
संसारो‌உयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ॥ 8 ॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥
मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥
दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥
द्वादश मञ्जरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ॥ 13 ॥
का ते कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरेका
भवति भवार्णव तरणे नौका ॥ 14 ॥
जटिलो मुण्डी लुञ्जित केशः
काषायान्बर बहुकृत वेषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ॥ 15 ॥
अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ 16 ॥
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुञ्चत्याशा पाशः ॥ 17 ॥
कुरुते गङ्गा सागर गमनं
व्रत परिपालनम्-अथवा दानम् ।
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ॥ 18 ॥
सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ 20 ॥
भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता ।
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपया‌உपारे पाहि मुरारे ॥ 22 ॥
रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥
कस्त्वं को‌உहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ 24 ॥
त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ 25 ॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ॥ 26 ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वा‌உ‌உत्मानं पश्यति सो‌உहम् ।
आत्मज्ञ्नान विहीना मूढाः
ते पच्यन्ते नरक निगूढाः ॥ 27 ॥
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् ।
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ 31 ॥
गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ 32 ॥
मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ॥ 33 ॥

नाराय॒ण सूक्तं

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति । पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-मच्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः । ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्जगत्स॒र्वं॒ दृ॒श्यते॓ श्रूय॒ते‌உपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः । अनन्त॒मव्ययं॑ क॒विग्ं स॑मु॒द्रे‌உन्तं॑ वि॒श्वशं॑भुवम् । प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्याय॑त॒नं म॑हत् । सन्तत॑ग्ं शि॒लाभि॑स्तु॒ लम्ब॒त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्॓ स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्-वि॒श्वार्चि॑र्-वि॒श्वतो॑मुखः । सो‌உग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒मध्ये॒ वह्नि॑शिखा अ॒णीयो॓र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑-यद॑मध्य॒स्था॒द्-वि॒ध्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा॓स्वत्य॒णूप॑मा । तस्या॓ः शिखा॒या म॑ध्ये प॒रमा॓त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सो‌உक्ष॑रः पर॒मः स्व॒राट् ॥
ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॑क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया॓त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

देवी अम्बा स्तुति-(कालिदास कृतम्)

चेटी भवन्निखिल खेटी कदम्बवन वाटीषु नाकि पटली
कोटीर चारुतर कोटी मणीकिरण कोटी करम्बित पदा ।
पाटीरगन्धि कुचशाटी कवित्व परिपाटीमगाधिप सुता
घोटीखुरादधिक धाटीमुदार मुख वीटीरसेन तनुताम् ॥ 1 ॥ शा. ॥
द्वैपायन प्रभृति शापायुध त्रिदिव सोपान धूलि चरणा
पापापह स्वमनु जापानुलीन जन तापापनोद निपुणा ।
नीपालया सुरभि धूपालका दुरितकूपादुदन्चयतुमाम्
रूपाधिका शिखरि भूपाल वंशमणि दीपायिता भगवती ॥ 2 ॥ शा. ॥
यालीभि रात्मतनुतालीनकृत्प्रियक पालीषु खेलति भवा
व्याली नकुल्यसित चूली भरा चरण धूली लसन्मणिगणा ।
याली भृति श्रवसि ताली दलं वहति यालीक शोभि तिलका
साली करोतु मम काली मनः स्वपद नालीक सेवन विधौ ॥ 3 ॥ शा. ॥
बालामृतांशु निभ फालामना गरुण चेला नितम्ब फलके
कोलाहल क्षपित कालामराकुशल कीलाल शोषण रविः ।
स्थूलाकुचे जलद नीलाकचे कलित वीला कदम्ब विपिने
शूलायुध प्रणति शीला दधातु हृदि शैलाधि राज तनया ॥ 4 ॥ शा. ॥
कम्बावतीव सविडम्बा गलेन नव तुम्बाभ वीण सविधा
बिम्बाधरा विनत शम्बायुधादि निकुरुम्बा कदम्ब विपिने ।
अम्बा कुरङ्ग मदजम्बाल रोचि रिह लम्बालका दिशतु मे
शं बाहुलेय शशि बिम्बाभि राम मुख सम्बाधिता स्तन भरा ॥ 5 ॥ शा. ॥
दासायमान सुमहासा कदम्बवन वासा कुसुम्भ सुमनो
वासा विपञ्चि कृत रासा विधूत मधु मासारविन्द मधुरा ।
कासार सून तति भासाभिराम तनु रासार शीत करुणा
नासा मणि प्रवर भासा शिवा तिमिर मासाये दुपरतिम् ॥ 6 ॥ शा. ॥
न्यङ्काकरे वपुषि कङ्काल रक्त पुषि कङ्कादि पक्षि विषये
त्वं कामना मयसि किं कारणं हृदय पङ्कारि मे हि गिरिजाम् ।
शङ्काशिला निशित टङ्कायमान पद सङ्काशमान सुमनो
झङ्कारि भृङ्गतति मङ्कानुपेत शशि सङ्काश वक्त्र कमलाम् ॥ 7 ॥ शा. ॥
जम्भारि कुम्भि पृथु कुम्भापहासि कुच सम्भाव्य हार लतिका
रम्भा करीन्द्र कर दम्भापहोरुगति डिम्भानुरञ्जित पदा ।
शम्भा उदार परिरम्भाङ्कुरत् पुलक दम्भानुराग पिशुना
शं भासुराभरण गुम्भा सदा दिशतु शुम्भासुर प्रहरणा ॥ 8 ॥ शा. ॥
दाक्षायणी दनुज शिक्षा विधौ विकृत दीक्षा मनोहर गुणा
भिक्षाशिनो नटन वीक्षा विनोद मुखि दक्षाध्वर प्रहरणा ।
वीक्षां विधेहि मयि दक्षा स्वकीय जन पक्षा विपक्ष विमुखी
यक्षेश सेवित निराक्षेप शक्ति जय लक्षावधान कलना ॥ 9 ॥ शा. ॥
वन्दारु लोक वर सन्धायिनी विमल कुन्दावदात रदना
बृन्दारु बृन्द मणि बृन्दारविन्द मकरन्दाभिषिक्त चरणा ।
मन्दानिला कलित मन्दार दामभिरमन्दाभिराम मकुटा
मन्दाकिनी जवन भिन्दान वाचमरविन्दानना दिशतु मे ॥ 10 ॥ शा. ॥
यत्राशयो लगति तत्रागजा भवतु कुत्रापि निस्तुल शुका
सुत्राम काल मुख सत्रासकप्रकर सुत्राण कारि चरणा ।
छत्रानिलातिरय पत्त्राभिभिराम गुण मित्रामरी सम वधूः
कु त्रासहीन मणि चित्राकृति स्फुरित पुत्रादि दान निपुणा ॥ 11 ॥ शा. ॥
कूलातिगामि भय तूलावलिज्वलनकीला निजस्तुति विधा
कोलाहलक्षपित कालामरी कुशल कीलाल पोषण रता ।
स्थूलाकुचे जलद नीलाकचे कलित लीला कदम्ब विपिने
शूलायुध प्रणति शीला विभातु हृदि शैलाधिराज तनया ॥ 12 ॥ शा. ॥
इन्धान कीर मणिबन्धा भवे हृदयबन्धा वतीव रसिका
सन्धावती भुवन सन्धारणे प्यमृत सिन्धावुदार निलया ।
गन्धानुभाव मुहुरन्धालि पीत कच बन्धा समर्पयतु मे
शं धाम भानुमपि रुन्धान माशु पद सन्धान मप्यनुगता ॥ 13 ॥ शा. ॥

श्रीदुर्गासप्तशती-सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशो‌உध्यायः ॥

ध्यानं
ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ॥
ऋषिरुवाच ॥ 1 ॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥3॥
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥4॥
तामुपैहि महाराज शरणं परमेश्वरीं।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥5॥
मार्कण्डेय उवाच ॥6॥
इति तस्य वचः शृत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥7॥
निर्विण्णोतिममत्वेन राज्यापहरेणन च।
जगाम सद्यस्तपसे सच वैश्यो महामुने ॥8॥
सन्दर्शनार्थमम्भाया नlपुलिन मास्थितः।
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ॥9॥
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥10॥
निराहारौ यताहारौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ॥11॥
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥12॥
देव्युवाचा॥13॥
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते॥14॥
मार्कण्डेय उवाच॥15॥
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्॥16॥
सो‌உपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम् ॥17॥
देव्युवाच॥18॥
स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥19॥
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥20॥
वैश्य वर्य त्वया यश्च वरो‌உस्मत्तो‌உभिवाञ्चितः।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥21॥
मार्कण्डेय उवाच
इति दत्वा तयोर्देवी यथाखिलषितं वरं।
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥22॥
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥23॥
इति दत्वा तयोर्देवी यथभिलषितं वरम्।
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता॥24॥
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥25॥
।क्लीम् ॐ।
॥ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तम् ॥
॥श्री सप्त शती देवीमहत्म्यम् समाप्तम् ॥
। ॐ तत् सत् ।
आहुतिॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥
ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा । हृदयाय नमः ।
ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ।
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ।
ॐ स्ॐयानि यानिरूपाणि त्रैलोक्ये विचरन्तिते
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुम् ।
ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ।
ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः ।
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ।

श्रीदुर्गासप्तशती-फलश्रुतिर्नाम द्वादशो‌உध्यायः ॥

ध्यानं
विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां।
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे
देव्युवाच॥1॥
एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ॥2॥
मधुकैटभनाशं च महिषासुरघातनम्।
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ॥3॥
अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥4॥
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः।
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ॥5॥
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः।
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ॥6॥
तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥7॥
उप सर्गान शेषांस्तु महामारी समुद्भवान्।
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ॥8॥
यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ॥9॥
बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेवच ॥10॥
जानताजानता वापि बलि पूजां तथा कृताम्।
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ॥11॥
शरत्काले महापूजा क्रियते याच वार्षिकी।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥12॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥13॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥14॥
रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते।
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्॥15॥
शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥16॥
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥17॥
बालग्रहाभिभूतानं बालानां शान्तिकारकम्।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥18॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम्॥19॥
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥20॥
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥21॥
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥22॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम।
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्॥23॥
तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥24॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥25॥
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः।
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः॥26॥
राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतो‌உपिवा।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥27॥
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे।
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितो‌உपिवा॥28॥
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्।
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा॥29॥
दूरादेव पलायन्ते स्मरतश्चरितं मम॥30॥
ऋषिरुवाच॥31॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतां सर्व देवानां तत्रैवान्तरधीयत॥32॥
ते‌உपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा।
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः॥33॥
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि 
जगद्विध्वंसके तस्मिन् महोग्रे‌உतुल विक्रमे॥34॥
निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥35॥
एवं भगवती देवी सा नित्यापि पुनः पुनः।
सम्भूय कुरुते भूप जगतः परिपालनम्॥36॥
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥37॥
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महादेव्या महाकाली महामारी स्वरूपया॥38॥
सैव काले महामारी सैव सृष्तिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी॥39॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते॥40॥
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां॥41॥
॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशो‌உध्याय समाप्तम् ॥
आहुतिॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥

श्रीदुर्गासप्तशती-नारायणीस्तुतिर्नाम एकादशो‌உध्यायः ॥

ध्यानं
ॐ बालार्कविद्युतिम् इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥
ऋषिरुवाच॥1॥
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतो‌உभिलस्य।
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ॥3॥
आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ॥4॥
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥5॥
विद्याः समस्तास्तव देवि भेदाः।
स्त्रियः समस्ताः सकला जगत्सु।
त्वयैकया पूरितमम्बयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ॥6॥
सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥7॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।
स्वर्गापवर्गदे देवि नारायणि नमो‌உस्तुते ॥8॥
कलाकाष्ठादिरूपेण परिणाम प्रदायिनि।
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ॥9॥
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्रयम्बके गौरी नारायणि नमो‌உस्तुते ॥10॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमो‌உस्तुते ॥11॥
शरणागत दीनार्त परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमो‌உस्तुते ॥12॥
हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी।
कौशाम्भः क्षरिके देवि नारायणि नमो‌உस्तुते ॥13॥
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि।
माहेश्वरी स्वरूपेण नारायणि नमो‌உस्तुते ॥14॥
मयूर कुक्कुटवृते महाशक्तिधरे‌உनघे।
कौमारीरूपसंस्थाने नारायणि नमोस्तुते॥15॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे।
प्रसीद वैष्णवीरूपेनारायणि नमो‌உस्तुते॥16॥
गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे।
वराहरूपिणि शिवे नारायणि नमोस्तुते॥17॥
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।
त्रैलोक्यत्राणसहिते नारायणि नमो‌உस्तुते॥18॥
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहारे चैन्द्रि नारायणि नमो‌உस्तुते ॥19॥
शिवदूतीस्वरूपेण हतदैत्य महाबले।
घोररूपे महारावे नारायणि नमो‌உस्तुते॥20॥
दंष्त्राकराल वदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमो‌உस्तुते॥21॥
लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमो‌உस्तुते॥22॥
मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमो‌உस्तुते॥23॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमो‌உस्तुते ॥24॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायिनि नमो‌உस्तुते ॥25॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतिर्भद्रकालि नमो‌உस्तुते॥26॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥27॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्॥28॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां।
त्वामाश्रिता श्रयतां प्रयान्ति॥29॥
एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वाम्भिके तत्प्रकरोति कान्या॥30॥
विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्ते‌உति महान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥31॥
रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्॥32॥
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया येत्वयि भक्तिनम्राः॥33॥
देवि प्रसीद परिपालय नो‌உरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः।
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥34॥
प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥35॥
देव्युवाच॥36॥
वरदाहं सुरगणा परं यन्मनसेच्चथ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥37॥
देवा ऊचुः॥38॥
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्॥39॥
देव्युवाच॥40॥
वैवस्वते‌உन्तरे प्राप्ते अष्टाविंशतिमे युगे।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥41॥
नन्दगोपगृहे जाता यशोदागर्भ सम्भवा।
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी॥42॥
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान् ॥43॥
भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥44॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥45॥
भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥46॥
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥47॥
ततो‌உ हमखिलं लोकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः॥48॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥49॥
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले॥50॥
रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्।
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः॥51॥
भीमादेवीति विख्यातं तन्मे नाम भविष्यति।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति॥52॥
तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥53॥
भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥54॥
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥55॥
॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशो‌உध्यायः समाप्तम् ॥
आहुतिॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ॥

श्रीदुर्गासप्तशती-शुम्भोवधो नाम दशमो‌உध्यायः ॥

ऋषिरुवाच॥1॥
निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं।
हन्यमानं बलं चैव शुम्बः कृद्धो‌உब्रवीद्वचः ॥ 2 ॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह।
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥
देव्युवाच ॥4॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥5॥
ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥6॥
देव्युवाच ॥6॥
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ॥8॥
ऋषिरुवाच ॥9॥
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानाम् असुराणां च दारुणम् ॥10॥
शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः।
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ॥11॥
दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥12॥
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी।
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः॥13॥
ततः शरशतैर्देवीम् आच्चादयत सो‌உसुरः।
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः॥14॥
चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्॥15॥
ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥16॥
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्॥17॥
हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका।
जग्राह मुद्गरं घोरम् अम्बिकानिधनोद्यतः॥18॥
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः।
तथापि सो‌உभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्॥19॥
स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः।
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्॥20॥
तलप्रहाराभिहतो निपपात महीतले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥21॥
उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः।
तत्रापि सा निराधारा युयुधे तेन चण्डिका॥22॥
नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्।
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्॥23॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले॥24॥
सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥25॥
तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्।
जगत्यां पातयामास भित्वा शूलेन वक्षसि॥26॥
स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ॥27॥
ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥28॥
उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥29॥
ततो देव गणाः सर्वे हर्ष निर्भरमानसाः।
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः॥30॥
अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः।
ववुः पुण्यास्तथा वाताः सुप्रभो‌உ भूद्धिवाकरः॥31॥
जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः॥32॥
॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तम् ॥
आहुतिॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

श्रीदुर्गासप्तशती-निशुम्भवधोनाम नवमोध्यायः ॥

ध्यानं
ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां 
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां-
अर्धाम्बिकेशमनिशं वपुराश्रयामि ॥
राजौवाच॥1॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ॥ 2॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥3॥
ऋषिरुवाच ॥4॥
चकार कोपमतुलं रक्तबीजे निपातिते।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥5॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।
अभ्यदावन्निशुम्बो‌உथ मुख्ययासुर सेनया ॥6॥
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥7॥
आजगाम महावीर्यः शुम्भो‌உपि स्वबलैर्वृतः।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ॥8॥
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥9॥
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥10॥
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्॥11॥
ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्।
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ॥12॥
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सो‌உसुरः।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥13॥
कोपाध्मातो निशुम्भो‌உथ शूलं जग्राह दानवः।
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्॥14॥
आविद्ध्याथ गदां सो‌உपि चिक्षेप चण्डिकां प्रति।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता॥15॥
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं।
आहत्य देवी बाणौघैरपातयत भूतले॥16॥
तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्॥17॥
स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः।
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः॥18॥
तमायान्तं समालोक्य देवी शङ्खमवादयत्।
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्॥19॥
पूरयामास ककुभो निजघण्टा स्वनेन च।
समस्तदैत्यसैन्यानां तेजोवधविधायिना॥20॥
ततः सिंहो महानादै स्त्याजितेभमहामदैः।
पुरयामास गगनं गां तथैव दिशो दश॥21॥
ततः काली समुत्पत्य गगनं क्ष्मामताडयत्।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥22॥
अट्टाट्टहासमशिवं शिवदूती चकार ह।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ॥23॥
दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा।
तदा जयेत्यभिहितं देवैराकाश संस्थितैः॥24॥
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया॥25॥
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्।
निर्घातनिःस्वनो घोरो जितवानवनीपते॥26॥
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्।
चिच्छेद स्वशरैरुग्रैः शतशो‌உथ सहस्रशः॥27॥
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्।
स तदाभि हतो भूमौ मूर्छितो निपपात ह॥28॥
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः।
आजघान शरैर्देवीं कालीं केसरिणं तथा॥29॥
पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः।
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्॥30॥
ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्॥31॥
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्।
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः॥32॥
तस्यापतत एवाशु गदां चिच्छेद चण्डिका।
खड्गेन शितधारेण स च शूलं समाददे॥33॥
शूलहस्तं समायान्तं निशुम्भममरार्दनम्।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका॥34॥
खिन्नस्य तस्य शूलेन हृदयान्निःसृतो‌உपरः।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्॥35॥
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः।
शिरश्चिच्छेद खड्गेन ततो‌உसावपतद्भुवि॥36॥
ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्।
असुरां स्तांस्तथा काली शिवदूती तथापरान्॥37॥
कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः॥38॥
माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे।
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि॥39॥
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः।
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे॥40॥
केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्।
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः॥41॥
॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तम् ॥
आहुतिॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥