6/18/16

॥ देवी माहात्म्यम् वा दुर्गासप्तशती ॥



           ॥ देवी माहात्म्यम् ॥



               ॥ श्री ॥



           ॥ श्रीचण्डिकाध्यानम् ॥



ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।

स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥


त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।

पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥


दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।



अथवा



या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी

या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥




           ॥ अथ अर्गलास्तोत्रम् ॥



ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, 

अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, 
श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः ।


ॐ नमश्चण्डिकायै ।



मार्कण्डेय उवाच ।

ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥


जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥


मधुकैटभविध्वंसि विधातृवरदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥


महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥


धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥


रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥


निशुम्भशुम्भनिर्नाशि त्रैलोक्यशुभदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥


वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥


अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥


नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥


स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥


चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥


देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥


विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥


विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥


सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥


विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥


देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥


प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥


चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥


कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥


हिमाचलसुतानाथसंस्तुते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥


इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥


देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥


भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥


तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥


इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।

सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥


॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥





           ॥ अथ कीलकस्तोत्रम् ॥



ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः,

श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥


सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।

सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥


सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।

एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥ ३॥


न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।

विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥ ४॥


समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।

कृत्वा निमन्त्रयामास सर्वमेवमिदं  शुभम् ॥ ५॥


स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।

समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥ ६॥


सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।

कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥


ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।

इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥


यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।

स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥ ९॥


न चैवापाटवं तस्य भयं क्वापि न जायते ।

नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥ १०॥


ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।

ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ॥ ११॥


सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।

तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् ॥ १२॥


शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।

भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥


ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।

शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥


चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।

हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥ १५॥


अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।

निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥ १६॥


         ॥ इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ॥





           ॥ अथ देवी कवचम् ॥



अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः ,

चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् ,
दिग्बन्धदेवतास्तत्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥


ब्रह्मोवाच ।

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥


प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति  कूष्माण्डेति चतुर्थकम् ॥ ३॥


पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।

सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥


नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥


अग्निना दह्यमानास्तु शत्रुमध्यगता रणे ।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६।
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् ॥ ७॥


यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते ।

ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः ॥ ८॥


प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।

ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥


नारसिंही महावीर्या शिवदूती महाबला ।

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ १०॥


लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ।

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥ ११॥


ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ १२॥


नानाभरणशोभाढ्या नानारत्नोपशोभिताः ।

श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥ १३॥


इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः ।

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ १४॥


शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।

खेटकं तोमरं चैव परशुं पाशमेव च ॥ १५॥


कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ।

दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १६॥


धारयन्त्यायुधानीत्थं देवानां च हिताय वै ।

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ १७॥


महाबले महोत्साहे महाभयविनाशिनि ।

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १८॥


प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ॥ १९॥


प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।

उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ २०॥


ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ २१॥


जया मामग्रतः पातु विजया पातु पृष्ठतः ।

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ २२॥


शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ २३॥


नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके ।

त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २४॥


शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।

कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी ॥ २५॥


नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।

अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २६॥


दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।

घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २७॥


कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २८॥


नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।

स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २९॥


हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।

नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥ ३०॥


स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।

हृदये ललिता देवी उदरे शूलधारिणी ॥ ३१॥


नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।

मेढ्रं  रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३२॥


कट्यां भगवती रक्षेदूरू मे मेघवाहना ।

जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३३॥


गुल्फयोर्नारसिंही च  पादपृष्ठे तु कौशिकी ।

पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३४॥


नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।

रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३५॥


रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३६॥


पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।

ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३७॥


शुक्रं ब्रह्माणी मे रक्षेच्छायां  छत्रेश्वरी तथा ।

अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३८॥


प्राणापानौ तथा व्यानमुदानं च समानकम् ।

वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३९॥


रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ४०॥


आयू रक्षतु वाराही धर्मं रक्षतु पार्वती ।

यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ४१॥


गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका ।

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४२॥


धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा ।

पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥ ४३॥


राजद्वारे महालक्ष्मीर्विजया सतत स्थिता ।

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ४४॥


तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ।

सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥ ४५॥


इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् ॥



पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः ॥ ४६॥



कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।

तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः ॥ ४७॥


यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४८॥


निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ।

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४९॥


इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ५०॥


दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः ।

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ५१॥


नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ॥ ५२॥


अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।

भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥ ५३॥


सहजा कुलजा माला डाकिनी शाकिनी तथा ।

अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥ ५४॥


ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५५॥


नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः ।

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिः परा भवेत् ॥ ५६॥


यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते ।

तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥ ५७॥


जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।

निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥ ५८॥


यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५९॥


देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् ।

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ६०॥


तत्र गच्छति गत्वासौ पुनश्चागमनं नहि ।

लभते परमं स्थानं शिवेन समतां व्रजेत् ॥ ६१॥


॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं

देवीकवचं समाप्तम् ॥




           ॥ देवी माहात्म्यम् ॥



%

         ॥ श्रीदुर्गायै नमः ॥


       ॥ अथ श्रीदुर्गासप्तशती ॥



           ॥ प्रथमोऽध्यायः ॥



विनियोगः

अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः ।
महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः ।
रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् ।
ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे
प्रथमचरित्रजपे
विनियोगः ।
। ध्यानम् ।
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ॥


ॐ नमश्चण्डिकायै ॥



ॐ ऐं मार्कण्डेय उवाच ॥ १॥



सावर्णिः सूर्यतनयो यो मनुः  कथ्यतेऽष्टमः ।

निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ २॥


महामायानुभावेन यथा मन्वन्तराधिपः ।

स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ ३॥


स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ ४॥


तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ ५॥


तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ ६॥


ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।

आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ ७॥


अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ ८॥


ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।

एकाकी हयमारुह्य जगाम गहनं वनम् ॥ ९॥


स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।

प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १०॥


तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।

इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ ११॥


सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १२॥


मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।

न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १३॥


मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।

ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १४॥


अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।

असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १५॥


सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १६॥


तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।

स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १७॥


सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।

इत्याकर्ण्य वचस्तस्य भूपतेः  प्रणयोदितम् ॥ १८॥


प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १९॥



वैश्य उवाच ॥ २०॥



समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ २१॥



पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।

विहीनश्च धनैर्दारैः  पुत्रैरादाय मे धनम् ॥ २२॥


वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ २३॥


प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ २४॥


कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ २५॥



राजोवाच ॥ २६॥



यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ २७॥



तेषु किं भवतः  स्नेहमनुबध्नाति मानसम् ॥ २८॥



वैश्य उवाच ॥ २९॥



एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ ३०॥



किं करोमि न बध्नाति मम निष्ठुरतां मनः ।

यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ ३१॥


पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।

किमेतन्नाभिजानामि जानन्नपि महामते ॥ ३२॥


यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।

तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ ३३॥


करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ ३४॥



मार्कण्डेय उवाच ॥ ३५॥



ततस्तौ सहितौ विप्र तं मुनिं  समुपस्थितौ ॥ ३६॥



समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ ३७॥


उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ ३८॥



राजोवाच ॥ ३९॥



भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ ४०॥



दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ ४१॥


जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।

अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ ४२॥


स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ ४३॥


दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।

तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ ४४॥


ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ ४५॥



ऋषिरुवाच ॥ ४६॥



ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ ४७॥



विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ ४८॥


केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।

ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ ४९॥


यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ ५०॥


मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।

ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ ५१॥


कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ ५२॥


लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।

तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ ५३॥


महामायाप्रभावेण संसारस्थितिकारिणा ।

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ ५४॥


महामाया हरेश्चैषा तया सम्मोह्यते जगत्

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ ५५॥


बलादाकृष्य मोहाय महामाया प्रयच्छति ।

तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ ५६॥


सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ ५७॥


संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ ५८॥



राजोवाच ॥ ५९॥



भगवन् का हि सा देवी महामायेति यां भवान् ॥ ६०॥



ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ ६१॥


तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ६२॥



ऋषिरुवाच ॥ ६३॥



नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ ६४॥



तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ ६५॥


उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ ६५॥


आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ ६७॥


विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ ६८॥


दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।

तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ ६९॥


विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ ७०॥


निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ ७१॥



ब्रह्मोवाच ॥ ७२॥



त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ ७३॥



सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।

अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ ७४॥


त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।

त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ ७५॥


त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ ७६॥


तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।

महाविद्या महामाया महामेधा महास्मृतिः ॥ ७७॥


महामोहा च भवती महादेवी महेश्वरी ।

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ ७८॥


कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ ७९॥


लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ ८०॥


शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ ८१॥


परापराणां परमा त्वमेव परमेश्वरी ।

यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ ८२॥


तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ ८३॥


सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।

विष्णुः शरीरग्रहणमहमीशान एव च ॥ ८४॥


कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ ८५॥


मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ ८६॥


बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ ८७॥



ऋषिरुवाच ॥ ८८॥



एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ ८९॥



विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ ९०॥


निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ ९१॥


एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।

मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ ९२॥


क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ ९३॥


पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ ९४॥


उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ ९५॥



श्रीभगवानुवाच ॥ ९६॥



भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ ९७॥



किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ ९८॥



ऋषिरुवाच ॥ ९९॥



वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १००॥



विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १०१॥


ऋषिरुवाच ॥ १०२॥



तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।

कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १०३॥


एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।

प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १०४॥


। ऐं ॐ ।

॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥




           ॥ द्वितीयोऽध्यायः ॥



विनियोगः

अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः ।
श्रीमहालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥


ॐ ह्रीं ऋषिरुवाच ॥ १॥



देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २॥


तत्रासुरैर्महावीर्यैर्देवसैन्यं  पराजितम् ।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ ३॥


ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ ४॥


यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ ५॥


सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।

अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ ६॥


स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ ७॥


एतद्वः कथितं सर्वममरारिविचेष्टितम् ।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ ८॥


इत्थं निशम्य देवानां वचांसि मधुसूदनः ।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ ९॥


ततोऽतिकोपपूर्णस्य  चक्रिणो वदनात्ततः ।

निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ १०॥


अन्येषां चैव देवानां शक्रादीनां शरीरतः ।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ ११॥


अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ १२॥


अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ १३॥


यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ १४॥


सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ १५॥


ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ १६॥


तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।

नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ १७॥


भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ १८॥


ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ १९॥


शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।

चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २०॥


शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।

मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २१॥


वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २२॥


कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २३॥


समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।

कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २४॥


क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २५॥


अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २६॥


अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।

विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २७॥


अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।

अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २८॥


अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।

हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २९॥


ददावशून्यं सुरया पानपात्रं धनाधिपः ।

शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ ३०॥


नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ ३१॥


सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ ३२॥


अमायतातिमहता प्रतिशब्दो महानभूत् ।

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ ३३॥


चचाल वसुधा चेलुः सकलाश्च महीधराः ।

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ ३४॥


तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।

दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ ३५॥


सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ ३६॥


अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ ३७॥


पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ ३८॥


दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ ३९॥


शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ ४०॥


युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।

रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ ४१॥


अयुध्यतायुतानां च सहस्रेण महाहनुः ।

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ ४२॥


अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।

गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ ४३॥


वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ ४४॥


युयुधे संयुगे तत्र रथानां परिवारितः ।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ ४५॥


युयुधुः संयुगे देव्या सह तत्र महासुराः ।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ ४६॥


हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ ४७॥


युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।

केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ ४८॥


देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ ४९॥


लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ ५०॥


मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ ५१॥


चचारासुरसैन्येषु वनेष्विव हुताशनः ।

निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ ५२॥


त एव सद्यः सम्भूता गणाः शतसहस्रशः ।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ ५३॥


नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।

अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ ५४॥


मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ ५५॥


खड्गादिभिश्च शतशो निजघान महासुरान् ।

पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ ५६॥


असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।

केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ ५७॥


विपोथिता निपातेन गदया भुवि शेरते ।

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ ५८॥


केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ ५९॥


श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।

केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ ६०॥


शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।

विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ ६१॥


एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ ६२॥


कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।

ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ ६३॥


कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ ६४॥


पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।

अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ ६५॥


शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ ६६॥


क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ ६७॥


स च सिंहो महानादमुत्सृजन् धुतकेसरः ।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ ६८॥


देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।

यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ ६९॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥




           ॥ तृतीयोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।

सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ २॥


स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।

यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ३॥


तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।

जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ४॥


चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ५॥


सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।

अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ६॥


सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।

आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ७॥


तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।

ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ८॥


चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ९॥


दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।

तेन तच्छतधा नीतं शूलं स च महासुरः ॥ १०॥


हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।

आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ११॥


सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।

हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ १२॥


भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ १३॥


ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ १४॥


युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।

युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ १५॥


ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।

करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ १६॥


उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।

दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ १७॥


देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ १८॥


उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ १९॥


बिडालस्यासिना कायात् पातयामास वै शिरः ।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ २०॥


एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।

माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ २१॥


कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।

लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ २२॥


वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।

निःश्वासपवनेनान्यान्पातयामास भूतले ॥ २३॥


निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ २४॥


सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।

शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ २५॥


वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।

लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ २६॥


धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।

श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ २७॥


इति क्रोधसमाध्मातमापतन्तं महासुरम् ।

दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ २८॥


सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ २९॥


ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।

छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३०॥


तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।

तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३१॥


करेण च महासिंहं तं चकर्ष जगर्ज च ।

कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३२॥


ततो महासुरो भूयो माहिषं वपुरास्थितः ।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३३॥


ततः  क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।

पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३४॥


ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३५॥


सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।

उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३६॥


देव्युवाच ॥ ३७॥



गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३८॥


ऋषिरुवाच ॥ ३९॥



एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ४०॥


ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।

अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ४१॥


अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।

तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ४२॥


ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।

प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ४३॥


तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४४॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥




           ॥ चतुर्थोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ २॥


देव्या यया ततमिदं जगदात्मशक्त्या

निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ३॥


यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥ ४॥


या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ५॥


किं वर्णयाम तव रूपमचिन्त्यमेतत्

किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ६॥


हेतुः समस्तजगतां त्रिगुणापि दोषै-

र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ७॥


यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ८॥


या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं

अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ॥ ९॥


शब्दात्मिका सुविमलग्य।र्जुषां निधान-

मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवि त्रयी भगवती भवभावनाय
वार्तासि सर्वजगतां परमाति।र्हन्त्री ॥ १०॥


मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ११॥


ईषत्सहासममलं परिपूर्णचन्द्र-

बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ १२॥


दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ १३॥


देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ॥ १४॥


ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥ १५॥


धम्यार्णि देवि सकलानि सदैव कर्मा-

ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ १६॥


दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्रदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाद्र।र्चित्ता ॥ १७॥


एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥ १८॥


दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ॥ १९॥


खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ॥ २०॥


दुर्वृत्तवृत्तशमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ २१॥


केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ २२॥


त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अस्माकमुन्मदसुरारिभवं नमस्ते ॥ २३॥


शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ २४॥


प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २५॥


सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ २६॥


खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।

करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ २७॥


          ऋषिरुवाच ॥ २८॥



एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ २९॥


भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ३०॥


          देव्युवाच ॥ ३१॥



व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ ३२॥



          देवा ऊचुः ॥ ३३॥



भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ॥ ३४॥



यदयं निहतः शत्रुरस्माकं महिषासुरः ।

यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ ३५॥


संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।

यश्च मत्य।र्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ३६॥


तस्य वित्तद्धि।र्विभवैर्धनदारादिसम्पदाम् ।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ३७॥


          ऋषिरुवाच ॥ ३८॥



इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ३९॥


इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४०॥


पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४१॥


रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४२॥


। ह्रीं ॐ ।

॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये
शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४॥




           ॥ पञ्चमोऽध्यायः ॥



विनियोगः

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ।
श्रीमहासरस्वती देवता ।
अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् ।
सूर्यस्तत्त्वम् ।
सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे
उत्तरचरित्रपाठे
विनियोगः ।
ध्यानम्
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥


ॐ क्लीं ऋषिरुवाच ॥ १॥



पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।

त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ २॥


तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।

कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ३॥


तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।

ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ४॥


हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।

महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५॥


तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ।

भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ६॥


इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।

जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ७॥


देवा ऊचुः ॥ ८॥



नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ९॥


रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ १०॥


कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।

नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ११॥


दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ १२॥


अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ १३॥


या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४-१६॥


या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७-१९॥


या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २०-२२॥


या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३-२५॥


या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २६-२८॥


या देवी सर्वभूतेषु छायारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २९-३१॥


या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३२-३४॥


या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३५-३७॥


या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३८-४०॥


या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ४१-४३॥


या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ४४-४६॥


या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ४७-४९॥


या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५०-५२॥


या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५३-५५॥


या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५६-५८॥


या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५९-६१॥


या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६२-६४॥


या देवी सर्वभूतेषु दयारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६५-६७॥


या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६८-७०॥


या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७१-७३॥


या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७४-७६॥


इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।

भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ७७॥


चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७८-८०॥


स्तुता सुरैः पूर्वमभीष्टसंश्रया-

त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥ ८१॥


या साम्प्रतं चोद्धतदैत्यतापितै-

रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ८२॥


ऋषिरुवाच ॥ ८३॥



एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।

स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ८४॥


साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।

शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ८५॥


स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।

देवैः  समेतैः  समरे निशुम्भेन पराजितैः ॥ ८६॥


शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।

कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ८७॥


तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।

कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ८८॥


ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।

ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ८९॥


ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा ।

काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ९०॥


नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ९१॥


स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।

सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ९२॥


यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।

त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ९३॥


ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।

पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ॥ ९४॥


विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।

रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ९५॥


निधिरेष महापद्मः समानीतो धनेश्वरात् ।

किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥  ९६॥


छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।

तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ९७॥


मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।

पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ९८॥


निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।

वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ९९॥


एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।

स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ १००॥


ऋषिरुवाच ॥ १०१॥



निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ १०२॥


इति चेति च वक्तव्या सा गत्वा वचनान्मम ।

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ १०३॥


स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।

तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ १०४॥


दूत उवाच ॥ १०५॥



देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ १०६॥


अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।

निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ १०७॥


मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।

यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ १०८॥


त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।

तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ १०९॥


क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।

उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥ ११०॥


यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।

रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ १११॥


स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।

सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ११२॥


मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।

भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ११३॥


परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।

एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ११४॥


ऋषिरुवाच ॥ ११५॥



इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।

दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ११६॥


देव्युवाच ॥ ११७॥



सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।

त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ११८॥


किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ११९॥


यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति ।

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ १२०॥


तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः ।

मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ १२१॥


दूत उवाच ॥ १२२॥



अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।

त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ १२३॥


अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।

तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥ १२४॥


इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।

शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ १२५॥


सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ १२६॥


देव्युवाच ॥ १२७॥



एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः ।

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ १२८॥


स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।

तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ॥ १२९॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥ ५॥




           ॥ षष्ठोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।

समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ २॥


तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ३॥


हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।

तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ४॥


तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ५॥


ऋषिरुवाच ॥ ६॥



तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।

वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ ७॥


स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ८॥


न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ९॥


देव्युवाच ॥ १०॥



दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।

बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ११॥


ऋषिरुवाच ॥ १२॥



इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।

हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ १३॥


अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ १४॥


ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ १५॥


कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।

आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ॥ १६॥


केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।

तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ॥ १७॥


विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।

पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ १८॥


क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।

तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ १९॥


श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥ २०॥


चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ २१॥


हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।

तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ २२॥


केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ २३॥


तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ २४॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥ ६॥




           ॥ सप्तमोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।

चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ २॥


ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।

सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ३॥


ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।

आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ ४॥


ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।

कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ५॥


भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।

काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ६॥


विचित्रखट्वाङ्गधरा  नरमालाविभूषणा ।

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ७॥


अतिविस्तारवदना जिह्वाललनभीषणा ।

निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ८॥


सा वेगेनाभिपतिता घातयन्ती महासुरान् ।

सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥ ९॥


पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।

समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ १०॥


तथैव योधं तुरगै रथं सारथिना सह ।

निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ११॥


एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।

पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ १२॥


तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।

मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ १३॥


बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।

ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥ १४॥


असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।

जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ १५॥


क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।

दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ १६॥


शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।

छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ १७॥


तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ १८॥


ततो जहासातिरुषा भीमं भैरवनादिनी ।

काली करालवदना दुर्दर्शदशनोज्ज्वला ॥ १९॥


उत्थाय च महासिंहं देवी चण्डमधावत ।

गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ २०॥


अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।

तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ २१॥


हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।

मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ २२॥


शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ २३॥


मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।

युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ २४॥


ऋषिरुवाच ॥ २५॥



तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।

उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ २६॥


यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।

चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ २७॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥ ७॥




           ॥ अष्टमोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ २॥


ततः कोपपराधीनचेताः  शुम्भः प्रतापवान् ।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ३॥


अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ४॥


कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ५॥


कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ६॥


इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ७॥


आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।

ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८॥


ततः सिंहो महानादमतीव कृतवान्नृप ।

घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ९॥


धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।

निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ १०॥


तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।

देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ११॥


एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।

भवायामरसिंहानामतिवीर्यबलान्विताः ॥ १२॥


ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ १३॥


यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।

तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥ १४॥


हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।

आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥ १५॥


माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥  १६॥


कौमारी शक्तिहस्ता च मयूरवरवाहना ।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ १७॥


तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।

शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ १८॥


यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।

शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ १९॥


नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ २०॥


वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ २१॥


ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।

हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ २२॥


ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।

चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ २३॥


सा चाह धूम्रजटिलमीशानमपराजिता ।

दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ २४॥


ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ २५॥


त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ २६॥


बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।

तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ २७॥


यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ २८॥


तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।

अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ २९॥


ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।

ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ३०॥


सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।

चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ३१॥


तस्याग्रतस्तथा काली शूलपातविदारितान् ।

खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ३२॥


कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।

ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ३३॥


माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।

दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ३४॥


ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।

पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ३५॥


तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।

वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ३६॥


नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ३७॥


चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।

पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ३८॥


इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।

दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ३९॥


पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ४०॥


रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।

समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ४१॥


युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।

ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ४२॥


कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ४३॥


यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।

तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ४४॥


ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥ ४५॥


पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।

ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ४६॥


वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।

गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ४७॥


वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।

सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ४८॥


शक्त्या जघान कौमारी वाराही च तथासिना ।

माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ४९॥


स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।

मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ५०॥


तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।

पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ५१॥


तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ५२॥


तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।

उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ५३॥


मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।

रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ५४॥


भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।

एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति ॥ ५५॥


भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ५६॥


मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ ५७॥


न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ५८॥


यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।

मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ ५९॥


तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।

देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः ॥ ६०॥


जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।

स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ ६१॥


नीरक्तश्च महीपाल रक्तबीजो महासुरः ।

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ ६२॥


तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ६३॥



॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

रक्तबीजवधो नामाष्टमोऽध्यायः ॥ ८॥




           ॥ नवमोऽध्यायः ॥



ॐ राजोवाच ॥ १॥



विचित्रमिदमाख्यातं भगवन् भवता मम ।

देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ २॥


भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।

चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ३॥


ऋषिरुवाच ॥ ४॥



चकार कोपमतुलं रक्तबीजे निपातिते ।

शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ५॥


हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।

अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ६॥


तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ।

सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ७॥


आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।

निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ८॥


ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।

शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९॥


चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।

ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ १०॥


निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् ।

अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ११॥


ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।

निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ १२॥


छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः ।

तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ १३॥


कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।

आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ १४॥


आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।

सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ १५॥


ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।

आहत्य देवी बाणौघैरपातयत भूतले ॥ १६॥


तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।

भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ १७॥


स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।

भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ १८॥


तमायान्तं समालोक्य देवी शङ्खमवादयत् ।

ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ १९॥


पूरयामास ककुभो निजघण्टास्वनेन च ।

समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ २०॥


ततः सिंहो महानादैस्त्याजितेभमहामदैः ।

पूरयामास गगनं गां तथैव दिशो दश ॥ २१॥


ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।

कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ २२॥


अट्टाट्टहासमशिवं शिवदूती चकार ह ।

वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ २३॥


दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।

तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ २४॥


शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।

आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ २५॥


सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।

निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ २६॥


शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् ।

चिच्छेद स्वशरैरुग्रैः  शतशोऽथ सहस्रशः ॥ २७॥


ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।

स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ २८॥


ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।

आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ २९॥


पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ।

चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ३०॥


ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।

चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ३१॥


ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।

अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ३२॥


तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।

खड्गेन शितधारेण स च शूलं समाददे ॥ ३३॥


शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।

हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ३४॥


भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।

महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ३५॥


तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।

शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ३६॥


ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ।

असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ३७॥


कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।

ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ३८॥


माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।

वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ३९॥


खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।

वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ४०॥


केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।

भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ४१॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥




           ॥ दशमोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ २॥


बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।

अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ ३॥


देव्युवाच ॥ ४॥



एकैवाहं जगत्यत्र द्वितीया का ममापरा ।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ ५॥


ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ ६॥


देव्युवाच ॥ ७॥



अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ ८॥


ऋषिरुवाच ॥ ९॥



ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।

पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०॥


शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ ११॥


दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।

बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १२॥


मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।

बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १३॥


ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १४॥


छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १५॥


ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।

अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १६॥


तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।

धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
अश्वांश्च पातयामास रथं सारथिना सह ॥ १७॥


हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।

जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १८॥


चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १९॥


स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ २०॥


तलप्रहाराभिहतो निपपात महीतले ।

स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ २१॥


उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।

तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ २२॥


नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ २३॥


ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।

उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ २४॥


स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ २५॥


तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ २६॥


स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ २७॥


ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ २८॥


उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ २९॥


ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ ३०॥


अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ ३१॥


जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ ३२॥



॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे

देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥




           ॥ एकादशोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



देव्या हते तत्र महासुरेन्द्रे

        सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
      विकाशिवक्त्राब्जविकाशिताशाः ॥ २॥


देवि प्रपन्नार्तिहरे प्रसीद

        प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
        त्वमीश्वरी देवि चराचरस्य ॥ ३॥


आधारभूता जगतस्त्वमेका

        महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
      दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ४॥


त्वं वैष्णवीशक्तिरनन्तवीर्या

      विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
      त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ५॥


विद्याः समस्तास्तव देवि भेदाः

        स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
        का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ६॥


सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ७॥


सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ८॥


कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ९॥


सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ १०॥


सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११॥


शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ १२॥


हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ १३॥


त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ १४॥


मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ १५॥


शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ १६॥


गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ १७॥


नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ १८॥


किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ १९॥


शिवदूतीस्वरूपेण हतदैत्यमहाबले ।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ २०॥


दंष्ट्राकरालवदने शिरोमालाविभूषणे ।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ २१॥


लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।

महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ २२॥


मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ २३॥


सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ २४॥


एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।

पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ २५॥


ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ २६॥


हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।

सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ २७॥


असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।

शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ २८॥


रोगानशेषानपहंसि तुष्टा

        रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
        त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ २९॥


एतत्कृतं यत्कदनं त्वयाद्य

        धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिं
        कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ३०॥


विद्यासु शास्त्रेषु विवेकदीपे-

      ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
      विभ्रामयत्येतदतीव विश्वम् ॥ ३१॥


रक्षांसि यत्रोग्रविषाश्च नागा

        यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
        तत्र स्थिता त्वं परिपासि विश्वम् ॥ ३२॥


विश्वेश्वरि त्वं परिपासि विश्वं

        विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
        विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ३३॥


देवि प्रसीद परिपालय नोऽरिभीते-

      र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
        उत्पातपाकजनितांश्च महोपसर्गान् ॥ ३४॥


प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ३५॥


देव्युवाच ॥ ३६॥



वरदाहं सुरगणा वरं यन्मनसेच्छथ ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ३७॥


देवा ऊचुः ॥ ३८॥



सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ३९॥


देव्युवाच ॥ ४०॥



वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।

शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ४१॥


नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।

ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ४२॥


पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।

अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ४३॥


भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।

रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ४४॥


ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ४५॥


भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।

मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ४६॥


ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ४७॥


ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ४८॥


शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ४९॥


दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ५०॥


रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ५१॥


भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ५२॥


तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ५३॥


भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ५४॥


तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ५५॥



॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥




           ॥ द्वादशोऽध्यायः ॥



ॐ देव्युवाच ॥ १॥



एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।

तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ २॥


मधुकैटभनाशं च महिषासुरघातनम् ।

कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ ३॥


अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।

श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ ४॥


न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।

भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ ५॥


शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।

न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ ६॥


तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।

श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ ७॥


उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।

तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ ८॥


यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।

सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥ ९॥


बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।

सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १०॥


जानताजानता वापि बलिपूजां यथा कृताम् ।

प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ ११॥


शरत्काले महापूजा क्रियते या च वार्षिकी ।

तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२॥


सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।

मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १३॥


श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।

पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १४॥


रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।

नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १५॥


शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।

ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १६॥


उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।

दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १७॥


बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।

सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १८॥


दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।

रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १९॥


सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।

पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ २०॥


विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।

अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ २१॥


प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।

श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ २२॥


रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।

युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ २३॥


तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।

युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ २४॥


ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।

अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ २५॥


दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।

सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥  २६॥


राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।

आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ २७॥


पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।

सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ २८॥


स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।

मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ २९॥


दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ ३०॥



ऋषिरुवाच ॥ ३१॥



इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ ३२॥



पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।

तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ ३३॥


यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ ३४॥


जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।

निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ ३५॥


एवं भगवती देवी सा नित्यापि पुनः पुनः ।

सम्भूय कुरुते भूप जगतः परिपालनम् ॥ ३६॥


तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।

सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ ३७॥


व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।

महादेव्या महाकाली महामारीस्वरूपया ॥ ३८॥


सैव काले महामारी सैव सृष्टिर्भवत्यजा ।

स्थितिं करोति भूतानां सैव काले सनातनी ॥ ३९॥


भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।

सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ ४०॥


स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।

ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ ४१॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥




           ॥ त्रयोदशोऽध्यायः ॥



ॐ ऋषिरुवाच ॥ १॥



एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।

एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥ २॥


विद्या तथैव क्रियते भगवद्विष्णुमायया ।

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ ३॥


मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।

तामुपैहि महाराज शरणं परमेश्वरीम् ॥ ४॥


आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ ५॥



मार्कण्डेय उवाच ॥ ६॥



इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ ७॥



प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।

निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ ८॥


जगाम सद्यस्तपसे स च वैश्यो महामुने ।

सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ ९॥


स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १०॥


अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।

निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ ११॥


ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १२॥


परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३॥



देव्युवाच ॥ १४॥



यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।

मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १५॥


मार्कण्डेय उवाच ॥ १६॥



ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।

अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १७॥


सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।

ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १८॥


देव्युवाच ॥ १९॥



स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ २०॥



हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ २१॥



मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ २२॥



सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ २३॥



वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ २४॥



तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ २५॥



मार्कण्डेय उवाच ॥ २६॥



इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।

बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥ २७॥


एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ २८॥


इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।

बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥


एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ क्लीं ॐ ॥


॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥


॥ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॥



॥ ॐ तत् सत् ॐ ॥





        ॥ अथ अपराधक्षमापणस्तोत्रम् ॥



ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।

यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥


सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।

इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥


अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।

तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥


कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।

गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥


सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।

अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥


यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।

पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥


        यदत्र पाठे जगदम्बिके मया

             विसर्गबिन्द्वक्षरहीनमीरितम् ।
        तदस्तु सम्पूर्णतमं प्रसादतः
             सङ्कल्पसिद्धिश्च सदैव जायताम् ॥ ७॥


यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं

भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ।
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥


        प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।

        प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥


         ॥ इति अपराधक्षमापणस्तोत्रं समाप्तम् ॥





           ॥ अथ देवीसूक्तम् ॥



ॐ अहं रुद्रेभिर्वसुभिश्चराम्यह-

        मादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यह-
        मिन्द्राग्नी अहमश्विनोभा ॥ १॥


अहं सोममाहनसं बिभर्म्यहं

        त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते
        सुप्राव्ये यजमानाय सुन्वते ॥ २॥


अहं राष्ट्री सङ्गमनी वसूनां

        चिकितुषी प्रथमा यज्ञियानाम् ।
तां भा देवा व्यदधुः पुरुत्रा
        भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥


मया सो अन्नमत्ति यो विपश्यति

        यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति
        श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥


अहमेव स्वयमिदं वदामि जुष्टं

        देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि
        तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥


अहं रुद्राय धनुरा तनोमि

        ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं
        द्यावापृथिवी आ विवेश ॥ ६॥


अहं सुवे पितरमस्य मूर्धन्

        मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो-
          तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥


अहमेव वात इव प्र वाम्या-

        रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै-
        तावती महिना सं बभूव ॥ ८॥


  ॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥



         ॥ ॐ तत् सत् ॐ ॥

No comments: