6/17/16

॥ गजाननस्तोत्र ॥ ॥ गजाननस्तोत्रं देवर्षिकृतम् ॥

श्रीगणेशाय नमः ।
देवर्षय ऊचुः ।
नमस्ते गजवक्‍त्राय गजाननसुरूपिणे ।
पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥

व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।
अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥

रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै ।
तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥

सुकृतेः पुरुषस्यापि रूपिणे परमात्मने ।
बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥

स्वसंवेद्याय देवाय योगाय गणपाय च ।
शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥

विनायकाय वीराय गजदैत्यस्य शत्रवे ।
मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥

देवरक्षकरायैव विघ्नेशाय नमो नमः ।
वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥

त्वयाऽयं निहतो दैत्यो गजनामा महाबलः ।
ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥

हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति ।
स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥

एवमुक्‍त्वा गणाधीश सर्वे देवर्षयस्ततः ।
प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥

कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः ।
मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥

तानुवाच मदीया ये भक्‍ताः परमभाविताः ।
तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥

तेभ्योऽहं प्ररमप्रीतो दास्यामि मनसीप्सिताम् ।
एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥

एवमुक्‍त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः ।
अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥

॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥

॥ गजाननस्तोत्रं देवर्षिकृतम् ॥
श्री गणेशाय नमः ॥

देवर्षय ऊचुः ॥

विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् ।
अमेयसाङ्ख्येन च लक्ष्मीशं गजाननं भक्‍तियुतं भजामः ॥ १॥

मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकारहीनं सकलाम्मकं वै गजाननं भक्‍तियुतं भजामः ॥ २॥

अमेय रूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् ।
अनादि-मध्यान्तमपाररूपं गजाननं भक्‍तियुतं भजामः ॥ ३॥

जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं गजाननं भक्‍तियुतं भजामः ॥ ४॥

न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् ।
न खे गतं पञ्चविभूतिहीनं गजाननं भक्‍तियुतं भजामः ॥ ५॥

न विश्वगं तैजसगं न प्राज्ञं समष्टि-व्यष्टिस्थ-मनन्तगं तम् ।
गुणैर्विहीनं परमार्थभूतं गजाननं भक्‍तियुतं भजामः ॥ ६॥

गणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी ।
सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्‍तियुतं भजामः ॥ ७॥

अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्‍तियुतं भजामः ॥ ८॥

यदि त्वया नाथ! घृतं न किञ्चित्तदा कथं सर्वमिदं भजामि ।
अतो महात्मानमचिन्त्यमेवं गजानन भक्‍तियुतं भजामः ॥ ९॥

सुसिद्धिदं भक्‍तजनस्य देवं सकामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं गजाननं भक्‍तियुतं भजामः ॥ १०॥

सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
अनन्तबाहु मूषकध्वजं तं गजाननं भक्‍तियुतं भजामः ॥ ११॥

सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् ।
द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्‍तियुतं भजामः ॥ १२॥

चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै गजाननं भक्‍तियुतं भजामः ॥ १३॥

महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्‍तियुतं भजामः ॥ १४॥

रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्‍तियुतं भजामः ॥ १५॥

महेश्वरीस्थं च सुशक्‍तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजरूपं गजाननं भक्‍तियुतं भजामः ॥ १६॥

शिवादि-देवैश्च खगैश्च वन्द्यं नरैर्लता-वृक्ष-पशुप्रमुख्यैः ।
चराऽचरैर्लोक-विहीनमेवं गजाननं भक्‍तियुतं भजामः ॥ १७॥

मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथाऽपि देवं पुरसंस्थितं तं गजाननं भक्‍तियुतं भजामः ॥ १८॥

वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव ।
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्‍तियुतं भजामः ॥ १९॥

गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननं तं गजाननं भक्‍तियुतं भजामः ॥ २०॥

पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्‍तियुतं भजामः ॥ २१॥

मुद्गल उवाच ॥

एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२॥

गजानन उवाच ॥

वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्‍तो दास्यामि वाञ्छितं परम् ॥ २३॥

गजाननवचः श्रुत्वा हर्षयुक्‍ता सुरर्षयः ।
जगुस्तं भक्‍तिभावेन साश्रुनेत्रा प्रजापते ॥ २४॥

देवर्षय ऊचुः ॥

यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे ।
तदा भक्‍तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५॥

लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तया गजदिदं सर्वं वरयुक्‍तं कृतं त्वया ॥ २६॥

अधुना देवदेवेश! कर्मयुक्‍ता द्विजातयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७॥

स्व-स्वधर्मरताः सर्वे कृतास्त्वया गजानन!।
अतः परं वरं ढुण्ढे याचमानः किमप्यहो!॥ २८॥

यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा सङ्कटहीनान् वै कुरू त्वं नो गजानन!॥ २९॥

एवमुक्‍त्वा प्रणेमुस्तं गजाननमनामयम् ।
तानुवाच सप्रीत्यात्मा भक्‍ताधीनः स्वभावतः ॥ ३०॥

गजानन उवाच ॥

यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१॥

भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्‍ति-प्रदायकम् ॥ ३२॥

पुत्र-पौत्र-प्रदं पूर्णं धन-धान्य-प्रवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३॥

मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४॥

सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनादिषु च प्रशस्तं तद् भविष्यति ॥ ३५॥

कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६॥

एकविंशति वारं तत् चैकविंशद्दिनावधिम् ।
प्रयोगं यः करोत्येव सर्वसिद्धियुतो भवेत् ॥ ३७॥

धर्माऽर्थकाम-मोक्षाणां ब्रह्मभूतस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्‍तिवर्धनम् ॥ ३८॥

एवमुक्‍त्वा गणाधीशस्तत्रैवान्तरधीयत ॥


इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रं सम्पूर्णम् ॥

No comments: