6/17/16

॥ श्रीगणेशस्तोत्र ॥



             श्रीगणेशाय नमः । नारद उवाच ।
         प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
         भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥

         प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
         तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

         लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
         सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

         नवमं भालचन्द्रं च दशमं तु विनायकम् ।
         एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

         द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
         न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥

         विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
         पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

         जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
         संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

         अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
         तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

॥ इति श्रीनारदपुराणे सङ्कटनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥

No comments: