6/17/16

॥ श्रीगणेशाष्टकम् ॥



         श्रीगणेशाय नमः ।
गणपति-परिवारं चारुकेयूरहारं
        गिरिधरवरसारं योगिनीचक्रचारम् ।
भव-भय-परिहारं दुःख-दारिद्रय-दूरं
        गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ १॥

अखिलमलविनाशं पाणिना ध्वस्तपाशं  var  हस्तपाशं 
        कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भवभवगिरिनाशं मालतीतीरवासं
        गणपतिमभिवन्दे मानसे राजहंसम् ॥ २॥

विविध-मणि-मयूखैः शोभमानं विदूरैः
        कनक-रचित-चित्रं कण्ठदेशेविचित्रं ।
दधति विमलहारं सर्वदा यत्नसारं
        गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३॥

दुरितगजममन्दं वारणीं चैव वेदं
        विदितमखिलनादं नृत्यमानन्दकन्दम् ।
दधति शशिसुवक्‍त्रं चाऽङ्कुशं यो विशेषं
        गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥ ४॥

त्रिनयनयुतभाले शोभमाने विशाले
        मुकुट-मणि-सुढाले मौक्‍तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
        गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५॥

वपुषि महति रूपं पीठमादौ सुदीपं
        तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
        गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६॥

वरदविशदशस्तं दक्षिणं यस्य हस्तं
        सदयमभयदं तं चिन्तये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं
        गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७॥

कल्पद्रुमाधःस्थित-कामधेनुं
        चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुतचित्तरूपं यः
        पूजयेत् तस्य समस्तसिद्धिः ॥ ८॥

व्यासाष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥ ९॥

॥ इति श्रीपद्मपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ॥

No comments: