6/17/16

॥ श्रीगणेशगीतासारस्तोत्रम् ॥

श्री गणेशाय नमः ।
शिव उवाच ।
गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।
पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥

गणेश उवाच ।
देहश्चतुर्विधः प्रोक्तस्त्वम्पदं ब्रह्मभिन्नतः ।
सोऽहं देहि चतुर्धा तत्पदं ब्रह्म सदैकतः ॥ २॥

संयोग उभयोर्यच्चासिपदं ब्रह्म कथ्यते ।
स्वत उत्थानकं देवा विकल्पकरणात्रिधा ॥ ३॥

सदा स्वसुखनिष्ठं यद्‍ब्रह्म साङ्ख्यं प्रकीर्तितम् ।
परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४॥

स्वतः परत उत्थानहीनं यद्‍ब्रह्म कथ्यते ।
स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५॥

तदेव पञ्चधा जातं तन्निबोधत ईश्वराः ।
स्वतश्च परतो ब्रह्मोत्थानं यत्रिविधं स्मृतम् ॥ ६॥

ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः ।
तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७॥

रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते ।
सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८॥

तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते ।
शक्तिसूर्यमयो विष्णुश्चिदानन्दात्मको हि सः ॥ ९॥

त्रिविधेषु तदाकारस्तत्क्रियाहीनरूपकः ।
नेति शिवश्चतुर्थोऽयं त्रिनेति कारकात्परः ॥ १०॥

त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः ।
तेषामभेदे यद्‍ब्रह्म स्वानन्दः सर्वयोगकः ॥ ११॥

पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् ।
ब्रह्मा तदेव विज्ञेयः सर्वादिः सर्वभावतः ॥ १२॥

बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः ।
असत्सत्सदसच्चेति स्वानन्दरूपा वयं स्मृताः ॥ १३॥

स्वानन्दाद्यत्परं ब्रह्मयोगाख्यं ब्रह्मणां भवेत् ।
केषामपि प्रवेशो न तत्र तस्यापि कुत्रचित् ॥ १४॥

मदीयं दर्शनं तत्र योगेन योगिनां भवेत् ।
स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५॥

तेन स्वानन्द आसीनं वेदेषु प्रवदन्ति माम् ।
चतुर्णां ब्रह्मणां योगात्संयोगाभेदयोगतः ॥ १६॥

संयोगश्च ह्ययोगश्च तयोः परतयोर्मतः ।
पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकं ।
पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८॥

पञ्चभूतनिरोधेन प्राप्यते योगिभिर्हृदि ।
शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९॥

एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया ।
नित्यं युञ्जन्त योगेन नैव मोहं प्रगच्छत ॥ २०॥

चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता ।
नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१॥

त्यक्‍त्वा चिन्ताभिमानं ये गणेशोऽहंसमाधिना ।
भविष्यथ भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२॥

शिव उवाच ।
इत्युक्‍त्वा विररामाथ गणेशो भक्तवत्सलः ।
तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३॥

एकविंशतिश्लोकैस्तैर्गणेशेन प्रकीर्तितम् ।
गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४॥

गणेशगीतासारं च यः पठिष्यति भावतः ।
श्रोष्यति श्रद्दधानश्चेद्‍ब्रह्मभूतसमो भवेत् ॥ २५॥

इह भुक्‍त्वाऽखिलान्भोगानन्ते योगमयो भवेत् ।
दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६॥

इति मुद्गलपुराणोक्तं गणेशगीतासारस्तोत्रं समाप्तम् ।

No comments: